अथर्ववेद - काण्ड 2/ सूक्त 13/ मन्त्र 5
सूक्त - अथर्वा
देवता - विश्वदेवाः
छन्दः - विराड्जगती
सूक्तम् - दीर्घायु प्राप्ति सूक्त
यस्य॑ ते॒ वासः॑ प्रथमवा॒स्यं॑१ हरा॑म॒स्तं त्वा॒ विश्वे॑ऽवन्तु दे॒वाः। तं त्वा॒ भ्रात॑रः सु॒वृधा॒ वर्ध॑मान॒मनु॑ जायन्तां ब॒हवः॒ सुजा॑तम् ॥
स्वर सहित पद पाठयस्य॑ । ते॒ । वास॑: । प्र॒थ॒म॒ऽवा॒स्य᳡म् । हरा॑म: । तम् । त्वा॒ । विश्वे॑ । अ॒व॒न्तु॒ । दे॒वा: । तम् । त्वा॒ । भ्रात॑र: । सु॒ऽवृधा॑ । वर्ध॑मानम् । अनु॑ । जा॒य॒न्ता॒म् । ब॒हव॑: । सुऽजा॑तम् ॥१३.५॥
स्वर रहित मन्त्र
यस्य ते वासः प्रथमवास्यं१ हरामस्तं त्वा विश्वेऽवन्तु देवाः। तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥
स्वर रहित पद पाठयस्य । ते । वास: । प्रथमऽवास्यम् । हराम: । तम् । त्वा । विश्वे । अवन्तु । देवा: । तम् । त्वा । भ्रातर: । सुऽवृधा । वर्धमानम् । अनु । जायन्ताम् । बहव: । सुऽजातम् ॥१३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 13; मन्त्र » 5
विषय - ब्रह्मचर्य व्रत में आयु, बल बल और दृढ़ता की प्रार्थना
भावार्थ -
हे बालक ! ब्रह्मचरिन् ! (यस्य ते) जिस तेरे लिये हम (प्रथमवास्यं) प्रथम आश्रम में पहनने योग्य वस्त्र को (हरामः) लाते हैं। (तं त्वा) उस तेरी ( विश्व ) समस्त ( देवाः ) विद्वान्गण (अवन्तु) रक्षा करें। (सुवृधा) उत्तम वृद्धि, उन्नति से. (वर्धमानं) उन्नति पथ पर सदा बढ़ते और (सुजातं ) उत्तम रूप में विद्यासम्प्रव होते हुए ( तं त्वा ) उस तेरे ( अनु ) पीछे पीछे तेरा अनुकरण करते हुए (बहवः) बहुत (भ्रातरः) भाई अर्थात् सब्रह्मचारी (जायन्ताम् ) और भी हों ।
टिप्पणी -
(प्र०) ‘यस्य ते विश्वे, प्रवरस्यं’ इति हि० गृ० सू० ।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। १ अग्निर्देवता। २, ३ बृहस्पतिः। ४, ५ विश्वेदेवाः। १ अग्निस्तुतिः। २, ३ चन्द्रमसे वासः प्रार्थना। ४, ५ आयुः प्रार्थना। १-३ त्रिष्टुभः। ४ अनुष्टुप्। ५ विराड् जगती। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें