अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्(पृथक्करण्म्) चन्द्रमाः, आयुष्यम्
छन्दः - उष्णिग्गर्भा निचृदनुष्टुप्
सूक्तम् - यक्षविबर्हण
अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः। यक्ष्म॑म्पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठअ॒स्थिऽभ्य॑: । ते॒ । म॒ज्जऽभ्य॑: । स्नाव॑ऽभ्य: । ध॒मनि॑ऽभ्य: । यक्ष्म॑म् । पा॒णिऽभ्या॑म् । अ॒ङ्गुलि॑ऽभ्य: । न॒खेभ्य॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.६॥
स्वर रहित मन्त्र
अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः। यक्ष्मम्पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥
स्वर रहित पद पाठअस्थिऽभ्य: । ते । मज्जऽभ्य: । स्नावऽभ्य: । धमनिऽभ्य: । यक्ष्मम् । पाणिऽभ्याम् । अङ्गुलिऽभ्य: । नखेभ्य: । वि । वृहामि । ते ॥३३.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 6
विषय - देह के अङ्गों से रोग नाश करने का उपदेश ।
भावार्थ -
(ते अस्थिभ्यः) तेरी हड्डियों से, (मज्जभ्यः) मज्जा भागों से, (स्नायुभ्यः) स्नायुओं से (धमनिभ्यः) धमनी, रक्त-वाहिनी नाड़ियों से (पाणिभ्यां) तेरे हाथों से (अंगुलिभ्यः) अंगुलियों से और (ते नखेभ्यः) तेरे नखों से (यक्ष्मं वि वृहामि) रोग को दूर करता हूं ।
टिप्पणी -
‘मेहनाद् वनं करणाल्लोमभ्यस्ते नखेभ्यः। यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते।’ इति ऋग्वेदे। (तृ०) यक्ष्मं पृष्ठिभ्योमज्जभ्यो नाड्यां वि वृहामसि’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। यक्ष्मविवर्हणं चन्द्रमा वा देवता। आयुष्यं सूक्तम्। १, २ अनुष्टुभौ । ३ ककुम्मती। ४ चतुष्पदा भुरिग् उष्णिक्। ५ उपरिष्टाद् विराड् बृहती। ६ उष्णिग् गर्भा निचृदनुष्टुप्। ७ पथ्या पंङ्क्तिः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें