अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 4
सूक्त - पतिवेदनः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - पतिवेदन सूक्त
यथा॑ख॒रो म॑घवं॒श्चारु॑रे॒ष प्रि॒यो मृ॒गाणां॑ सु॒षदा॑ ब॒भूव॑। ए॒वा भग॑स्य जु॒ष्टेयम॑स्तु॒ नारी॒ संप्रि॑या॒ पत्यावि॑राधयन्ती ॥
स्वर सहित पद पाठयथा॑ । आ॒ऽख॒र: । म॒घ॒ऽव॒न् । चारु॑: । ए॒ष: । प्रि॒य: । मृ॒गाणा॑म् । सु॒ऽसदा॑: । ब॒भूव॑ । ए॒व । भग॑स्य । जु॒ष्टा । इ॒यम् । अ॒स्तु॒ । नारी॑ । सम्ऽप्रि॑या । पत्या॑ । अवि॑ऽराधयन्ती ॥३६.४॥
स्वर रहित मन्त्र
यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव। एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥
स्वर रहित पद पाठयथा । आऽखर: । मघऽवन् । चारु: । एष: । प्रिय: । मृगाणाम् । सुऽसदा: । बभूव । एव । भगस्य । जुष्टा । इयम् । अस्तु । नारी । सम्ऽप्रिया । पत्या । अविऽराधयन्ती ॥३६.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 4
विषय - कन्या के लिये योग्य पति की प्राप्ति ।
भावार्थ -
(मघवन्) हे ऐश्वर्यवन् पते ! (यथा एषः चारुः आखरः) जैसे यह सुन्दर गृह अर्थात् पशु-शाला (सुषदाः) पशुओं के सुखपूर्वक बैठने योग्य होकर (मृगाणां प्रियः) पशुओं को प्यारा (बभूव) हो जाता है (एवं) ऐसे ही (पत्या) पति के साथ (अविराधयन्ती) बिगाड़ न करती हुई (इयं नारी) यह नारी भी (भगस्य) भाग्यवान् पति की (जुष्टा) प्रेम-पात्री और (संप्रिया) अति प्रियतमा (अस्तु) हो ।
टिप्पणी -
(द्वि०) ‘सुषदं बभूव’ इति ह्विटनिकामितः पाठः (प्र०) ‘मघवान्’ (च०) ‘पत्याभिराधयन्ती’ इति सायणाभिमतौ पाठौ। (प्र०) यथा खरं मघवंश्चारुरेषु (तृ० च०) या वयं जुष्टा भमस्यास्तु सम्प्रिया इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - पतिवेदन ऋषिः। अग्नीषोमौ मन्त्रोक्ता सोमसूर्येन्द्रभगधनपतिहिरण्यौषधयश्च देवताः। १ भुरिग्। २, ५-७ अनुष्टुभः। ३, ४ त्रिष्टुभौ। ८ निचृत् पुरोष्णिक् । अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें