अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रमा अथवा जङ्गिडः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
अ॒यं विष्क॑न्धं सहते॒ ऽयं बा॑ध॒ते अ॒त्त्रिणः॑। अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः ॥
स्वर सहित पद पाठअ॒यम् । विऽस्क॑न्धम् । स॒ह॒ते॒ । अ॒यम् । बा॒ध॒ते॒ । अ॒त्त्रिण॑: । अ॒यम् । न॒: । वि॒श्वऽभे॑षज: । ज॒ङ्गि॒ड: । पा॒तु॒ । अंह॑स: ॥४.३॥
स्वर रहित मन्त्र
अयं विष्कन्धं सहते ऽयं बाधते अत्त्रिणः। अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥
स्वर रहित पद पाठअयम् । विऽस्कन्धम् । सहते । अयम् । बाधते । अत्त्रिण: । अयम् । न: । विश्वऽभेषज: । जङ्गिड: । पातु । अंहस: ॥४.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 3
विषय - जङ्गिड़ और शण दो प्रकार की सेनाएं ।
भावार्थ -
( अयम् ) ब्रह्मचर्य का यह भाव ( विष्कन्धम् ) रक्त-शोषण को ( सहते ) दवा देता है, (अयम्) यह भाव (अत्रिणः) खा जाने वाले काम क्रोध आदि शत्रुओं का ( बाधते ) नाश करता है, (जङ्गिडः) ब्रह्मचर्य रूप ( विश्वभेषजः ) महौषध (नः) हमें (अंहयः) हत्या से या पापवृत्तियों से ( पातु ) बचाए ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। चन्द्रमा जङ्गिडो वा देवता । जगढमणिस्तुतिः । १ विराट् प्रस्तारपंक्तिः । २-६ अनुष्टुभः। षडृर्चं सूक्तम् ॥
इस भाष्य को एडिट करें