Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 18
    सूक्त - अध्यात्म अथवा व्रात्य देवता - विराट् जगती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    ऋ॑तू॒नां च॒ वै सआ॑र्त॒वानां॑ च लो॒कानां॑ च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    ऋ॒तू॒नाम् । च॒ । वै । स: । आ॒र्त॒वाना॑म् । च॒ । लोका॑नाम् । च॒ । लौ॒क्याना॑म् । च॒ । मासा॑नाम् । च॒ । अ॒र्ध॒ऽमा॒साना॑म् । च॒ । अ॒हो॒रा॒त्रयो॑: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१८॥


    स्वर रहित मन्त्र

    ऋतूनां च वै सआर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानांचाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    ऋतूनाम् । च । वै । स: । आर्तवानाम् । च । लोकानाम् । च । लौक्यानाम् । च । मासानाम् । च । अर्धऽमासानाम् । च । अहोरात्रयो: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.१८॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 18

    भावार्थ -
    (सः) वह व्रात्य प्रजापति (अनादिष्टां दिशम् अनुव्यचलत्) ‘अनादिष्टा’ दिशा को चला। (तम् ऋतवः च, आर्त्तवाः च, लोकाः च, लौक्याः च, मासाः च, अहोरात्रे च अनुवि-अचलन्) उसके पीछे ऋतु, ऋतुओं के अनुकूल वायु आदि, लोक, लोक में विद्यमान नाना प्राणी, मास, अर्धमास, दिनरात ये सब चले। (यः एवं वेद सः वै ऋतूनां च० अहोरात्रयोः च प्रियं धाम भवति) जो व्रात्य के इस प्रकार के स्वरूप को साक्षात् करता है वह ऋतु, ऋतुओं के होने वाले विशेष पदार्थों, लोकों में स्थित पदार्थों और प्राणियों, मासों अर्धमासों दिनों और रातों का प्रिय आश्रय हो जाता है।

    ऋषि | देवता | छन्द | स्वर - १ प्र०, २ प्र० आसुरी पंक्तिः, ३-६, ९ प्र० आसुरी बृहती, ८ प्र० परोष्णिक्, १ द्वि०, ६ द्वि० आर्ची पंक्तिः, ७ प्र० आर्ची उष्णिक्, २ द्वि०, ४ द्वि० साम्नी त्रिष्टुप्, ३ द्वि० साम्नी पंक्तिः, ५ द्वि०, ८ द्वि० आर्षी त्रिष्टुप्, ७ द्वि० साम्नी अनुष्टुप्, ६ द्वि० आर्ची अनुष्टुप्, १ तृ० आर्षी पंक्तिः, २ तृ०, ४ तृ० निचृद् बृहती, ३ तृ० प्राजापत्या त्रिष्टुप्, ५ तृ०, ६ तृ० विराड् जगती, ७ तृ० आर्ची बृहती, ९ तृ० विराड् बृहती। षड्विंशत्यृचं षष्ठं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top