अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 5
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - विराडुष्णिक्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
इन्द्र॒ सेनां॑ मोहया॒मित्रा॑णाम्। अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान्विषू॑चो॒ वि ना॑शय ॥
स्वर सहित पद पाठइन्द्र॑ । सेना॑म् । मो॒ह॒य॒ । अ॒मित्रा॑णाम् ।अ॒ग्ने: । वात॑स्य । ध्राज्या॑ । तान् । विषू॑च: । वि । ना॒श॒य॒ ॥१.५॥
स्वर रहित मन्त्र
इन्द्र सेनां मोहयामित्राणाम्। अग्नेर्वातस्य ध्राज्या तान्विषूचो वि नाशय ॥
स्वर रहित पद पाठइन्द्र । सेनाम् । मोहय । अमित्राणाम् ।अग्ने: । वातस्य । ध्राज्या । तान् । विषूच: । वि । नाशय ॥१.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 5
विषय - शत्रु सेनाओं के प्रति सेनापति के कर्तव्य ।
भावार्थ -
हे (इन्द्र) राजन् ! (अमित्राणाम्) शत्रुओं की (सेनां) सेना को (मोहय) किंकर्त्तव्यताविमूढ़ कर और (अग्नेः) अग्नि के और (वातस्य) प्रचण्ड वायु के (ध्राज्या) अस्त्र से (तान्) उनको (विषूचः) छिन्न भिन्न करके (विनाशय) नाश कर डाल। राजा शत्रु की सेना पर आग्नेयास्त्र और वायवास्त्र का प्रयोग करे।
टिप्पणी -
ध्रज गतौ इत्यस्मादुणादिरिन् सार्वधातुकः। बाहुलकाद्वा इञ्। वसिपियजव्रजि इत्यादिषु सायणेन ध्रजेः पाठः कृतः नतु उणादौ क्वचित् ध्रजेः पाठ उपलभ्यते। क्षेमकरणत्रिवेदिनापि तथैवालेखि इति तच्चिन्त्यम् ।
(प्र०) ‘मनोमोहनं कृण्व इन्द्रामित्रेभ्यस्त्वम्’ इति पैप्प० सं।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । अग्निमरुदिन्द्रादयो वहवो देवताः । सेनामोहनम् । १ त्रिष्टुप् । २ विराड् गर्भा भुरिक् । ३, ६ अनुष्टुभौ । विराड् पुरोष्णिक् । षडृचं सूक्तम् ॥
इस भाष्य को एडिट करें