अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रमा, सांमनस्यम्
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
अनु॑व्रतः पि॒तुः पु॒त्रो मा॒त्रा भ॑वतु॒ संम॑नाः। जा॒या पत्ये॒ मधु॑मतीं॒ वाचं॑ वदतु शन्ति॒वाम् ॥
स्वर सहित पद पाठअनु॑ऽव्रत: । पि॒तु: । पु॒त्र । मा॒त्रा । भ॒व॒तु॒ । सम्ऽम॑ना: । जा॒या । पत्ये॑ । मधु॑ऽमतीम् । वाच॑म् । व॒द॒तु॒ । श॒न्ति॒ऽवाम् ॥३०.२॥
स्वर रहित मन्त्र
अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः। जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥
स्वर रहित पद पाठअनुऽव्रत: । पितु: । पुत्र । मात्रा । भवतु । सम्ऽमना: । जाया । पत्ये । मधुऽमतीम् । वाचम् । वदतु । शन्तिऽवाम् ॥३०.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 2
विषय - परस्पर मिलकर एक चित्त होकर रहने का उपदेश ।
भावार्थ -
(पुत्रः) पुत्र (पितुः) पिता का (अनुव्रतः) आज्ञाकारी हो और (मात्रा) माता के साथ (सं मना) अनुकूल और सद्-हृदय वाला होकर (भवतु) रहे। और (जाया) स्त्री अपने (पत्ये) पति के लिये सदा (मधु-मतीम्) मधुर (शन्तिवाम् वाचम्) शान्तियुक्त, सुखमद, कल्याण वाणी को (वदतु) बोले।
टिप्पणी -
(द्वि०) ‘माता भवतु’ इति सायणः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। चन्द्रमाः सामनस्यञ्च देवता। १-४ अनुष्टुभः। ५ विराड् जगती। ६ प्रस्तार पंक्तिः। ७ त्रिष्टुप्। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें