अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 13
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यत्ते॒ शिरो॒ यत्ते॒ मुखं॒ यौ कर्णौ॒ ये च॑ ते॒ हनू॑। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयत् । ते॒ । शिर॑: । यत् । ते॒ । मुख॑म् । यौ । कर्णौ॑ । ये इति॑ । च॒ । ते॒ । हनू॒ इति॑ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१३॥
स्वर रहित मन्त्र
यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयत् । ते । शिर: । यत् । ते । मुखम् । यौ । कर्णौ । ये इति । च । ते । हनू इति । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 13
Translation -
Let the head of this cow, let the mouth of it, let the ears of it and let those jaws of it pour Amiksha, (the curd mingled in boiling milk) and the sweet milk for the giver.