अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 8
सूक्त - पूरणः
देवता - इन्द्राग्नी, यक्ष्मनाशनम्
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-९६
स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्। इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥
स्वर सहित पद पाठस॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽवी॑र्येण । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥ इन्द्र॑: । यथा॑ । ए॒न॒म् । श॒रद॑: । नया॑ति । अति॑ । विश्व॑स्य । दु॒:ऽइ॒तस्य॑ । पा॒रम् ॥९६.८॥
स्वर रहित मन्त्र
सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम्। इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥
स्वर रहित पद पाठसहस्रऽअक्षेण । शतऽवीर्येण । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥ इन्द्र: । यथा । एनम् । शरद: । नयाति । अति । विश्वस्य । दु:ऽइतस्य । पारम् ॥९६.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 8
Translation -
I have restored him to health with the medicine named shatavirya which has hundred-powered potency, thousand-powered potency and has the power to make one lead the life of hundred years. Let the mighty physician lead him safe for a hundred autumns and to the farther shore of disease and pains.