अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 13
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम्। हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥
स्वर सहित पद पाठन । वै । ऊं॒ इति॑ । सोम॑: । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धा॒रय॑न्तम् । हन्ति॑ । रक्ष॑: । हन्ति॑ । अस॑त् । वद॑न्तम् । उ॒भौ । इन्द्र॑स्य । प्रऽसि॑तौ । श॒या॒ते॒ इति॑ ॥४.१३॥
स्वर रहित मन्त्र
न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम्। हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥
स्वर रहित पद पाठन । वै । ऊं इति । सोम: । वृजिनम् । हिनोति । न । क्षत्रियम् । मिथुया । धारयन्तम् । हन्ति । रक्ष: । हन्ति । असत् । वदन्तम् । उभौ । इन्द्रस्य । प्रऽसितौ । शयाते इति ॥४.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 13
Translation -
The just King never encourages the sin or sinner, he never gives shelter or encouragement to warrior or brave man who falsely claims his title. He kills the wicked, destroys the person speaking untruth and both of these two remain entangled in the noose of the King.