अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 15
सूक्त - भृग्वङ्गिराः
देवता - शाला
छन्दः - त्र्यवसाना पञ्चपदातिशक्वरी
सूक्तम् - शाला सूक्त
अ॑न्त॒रा द्यां च॑ पृथि॒वीं च॒ यद्व्यच॒स्तेन॒ शालां॒ प्रति॑ गृह्णामि त इ॒माम्। यद॒न्तरि॑क्षं॒ रज॑सो वि॒मानं॒ तत्कृ॑ण्वे॒ऽहमु॒दरं॑ शेव॒धिभ्यः॑। तेन॒ शालां॒ प्रति॑ गृह्णामि॒ तस्मै॑ ॥
स्वर सहित पद पाठअ॒न्त॒रा । द्याम् । च॒ । पृ॒थि॒वीम् । च॒ । यत् । व्यच॑: । तेन॑ । शाला॑म् । प्रति॑ । गृ॒ह्णा॒मि॒ । ते॒ । इ॒माम् । यत् । अ॒न्तरि॑क्षम् । रज॑स: । वि॒ऽमान॑म् । तत् । कृ॒ण्वे॒ । अ॒हम् । उ॒दर॑म् । शे॒व॒धिऽभ्य॑: । तेन॑ । शला॑म् । प्रति॑ । गृ॒ह्णा॒मि॒ । तस्मै॑ ॥३.१५॥
स्वर रहित मन्त्र
अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम्। यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः। तेन शालां प्रति गृह्णामि तस्मै ॥
स्वर रहित पद पाठअन्तरा । द्याम् । च । पृथिवीम् । च । यत् । व्यच: । तेन । शालाम् । प्रति । गृह्णामि । ते । इमाम् । यत् । अन्तरिक्षम् । रजस: । विऽमानम् । तत् । कृण्वे । अहम् । उदरम् । शेवधिऽभ्य: । तेन । शलाम् । प्रति । गृह्णामि । तस्मै ॥३.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 15
Translation -
O house-hold lady ! I, the master of the house take for your possession the house which is erected in the space spreading between the earth and heaven and the inner space of the house that measures out the wide, void I make the hollow to contain your treasure and wealth. Therefore I take this house for your possession.