अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 3/ मन्त्र 15
सूक्त - भृग्वङ्गिराः
देवता - शाला
छन्दः - त्र्यवसाना पञ्चपदातिशक्वरी
सूक्तम् - शाला सूक्त
24
अ॑न्त॒रा द्यां च॑ पृथि॒वीं च॒ यद्व्यच॒स्तेन॒ शालां॒ प्रति॑ गृह्णामि त इ॒माम्। यद॒न्तरि॑क्षं॒ रज॑सो वि॒मानं॒ तत्कृ॑ण्वे॒ऽहमु॒दरं॑ शेव॒धिभ्यः॑। तेन॒ शालां॒ प्रति॑ गृह्णामि॒ तस्मै॑ ॥
स्वर सहित पद पाठअ॒न्त॒रा । द्याम् । च॒ । पृ॒थि॒वीम् । च॒ । यत् । व्यच॑: । तेन॑ । शाला॑म् । प्रति॑ । गृ॒ह्णा॒मि॒ । ते॒ । इ॒माम् । यत् । अ॒न्तरि॑क्षम् । रज॑स: । वि॒ऽमान॑म् । तत् । कृ॒ण्वे॒ । अ॒हम् । उ॒दर॑म् । शे॒व॒धिऽभ्य॑: । तेन॑ । शला॑म् । प्रति॑ । गृ॒ह्णा॒मि॒ । तस्मै॑ ॥३.१५॥
स्वर रहित मन्त्र
अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम्। यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः। तेन शालां प्रति गृह्णामि तस्मै ॥
स्वर रहित पद पाठअन्तरा । द्याम् । च । पृथिवीम् । च । यत् । व्यच: । तेन । शालाम् । प्रति । गृह्णामि । ते । इमाम् । यत् । अन्तरिक्षम् । रजस: । विऽमानम् । तत् । कृण्वे । अहम् । उदरम् । शेवधिऽभ्य: । तेन । शलाम् । प्रति । गृह्णामि । तस्मै ॥३.१५॥
भाष्य भाग
हिन्दी (1)
विषय
शाला बनाने की विधि का उपदेश।[इस सूक्त का मिलान अथर्व काण्ड ३ सूक्त १२ से करो]
पदार्थ
(द्याम्) सूर्य [के प्रकाश] (च च) और (पृथिवीम् अन्तरा) पृथिवी के बीच (यत्) जो (व्यचः) खुला स्थान है, (तेन) उस [विस्तार] से (इमाम् शालाम्) इस शाला को [हे मनुष्य !] (ते) तेरे लिये (प्रति गृह्णामि) मैं ग्रहण करता हूँ। (यत्) जो (रजसः) घर का (अन्तरिक्षम्) अवकाश (विमानम्) विशेष मान परिमाण युक्त है, (तत्) उस [अवकाश] को (कृण्वे) बनाता हूँ। (तेन) उसी [कारण] से (तस्मै) [प्रयोजन] के लिये (शालाम्) शाला को (प्रति गृह्णामि) मैं ग्रहण करता हूँ ॥१५॥
भावार्थ
मनुष्यों को विचार और परिमाण करके शाला ऐसी बनानी चाहिये, जिसमें प्रकाश और वायु का गमन-आगमन रहे और जिस के भीतर कोष आदि रखने के लिये गुप्तघर, तलघर आदि हों ॥१५॥ १५-यह और अगला मन्त्र स्वामिदयानन्दकृतसंस्कारविधि गृहाश्रमप्रकरण में व्याख्यात हैं ॥
टिप्पणी
१५−(अन्तरा) मध्ये (द्याम्) सूर्यप्रकाशम् (च) (पृथिवीम्) (च) (यत्) (व्यचः) विस्तारः (तेन) विस्तारेण (शालाम्) गृहम् (प्रति गृह्णामि) स्वीकरोमि (ते) तुभ्यम् (इमाम्) (यत्) (अन्तरिक्षम्) अवकाशः (रजसः) लोकस्य। गृहस्य। लोका रजांस्युच्यन्ते-निरु० ४।१९। (विमानम्) विशेषेण मानपरिमाणयुक्तम् (तत्) अन्तरिक्षम् (कृण्वे) करोमि (अहम्) गृहस्वामी (उदरम्) अ० २।३३।४। जठरमिव रक्षाधारम् (शेवधिभ्यः) अ० ६।१२३।१। निधिभ्यः। कोषेभ्यः (तेन) कारणेन (शालाम्) (प्रति गृह्णामि) (तस्मै) प्रयोजनाय ॥
इंग्लिश (1)
Subject
The Good House
Meaning
O man, O family, O lady of the house, in heaven, on earth, and in between them the vastness and liberality that there is, with that in view, I take on this house for you. Whatever space and area of the home, well measured there is, that I would convert into a treasure- hold of the best of life’s wealth, and peace and joy of the inmates. With this hope, promise and resolution, I take over and enter this house.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१५−(अन्तरा) मध्ये (द्याम्) सूर्यप्रकाशम् (च) (पृथिवीम्) (च) (यत्) (व्यचः) विस्तारः (तेन) विस्तारेण (शालाम्) गृहम् (प्रति गृह्णामि) स्वीकरोमि (ते) तुभ्यम् (इमाम्) (यत्) (अन्तरिक्षम्) अवकाशः (रजसः) लोकस्य। गृहस्य। लोका रजांस्युच्यन्ते-निरु० ४।१९। (विमानम्) विशेषेण मानपरिमाणयुक्तम् (तत्) अन्तरिक्षम् (कृण्वे) करोमि (अहम्) गृहस्वामी (उदरम्) अ० २।३३।४। जठरमिव रक्षाधारम् (शेवधिभ्यः) अ० ६।१२३।१। निधिभ्यः। कोषेभ्यः (तेन) कारणेन (शालाम्) (प्रति गृह्णामि) (तस्मै) प्रयोजनाय ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal