अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 5
आ॑दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म्। ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥
स्वर सहित पद पाठआ॒दि॒त्यै: । इन्द्र॑: । सऽग॑ण: । म॒रुत्ऽभि॑: । अ॒स्माक॑म् । भू॒तु॒ । अ॒वि॒ता । त॒नूना॑म् ॥ ह॒त्वाय॑ । दे॒वा: । असु॑रान् । यत् । आय॑न् । दे॒वा: । दे॒व॒ऽत्वम् । अ॒भि॒ऽरक्ष॑माणा: ॥१२४.५॥
स्वर रहित मन्त्र
आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम्। हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥
स्वर रहित पद पाठआदित्यै: । इन्द्र: । सऽगण: । मरुत्ऽभि: । अस्माकम् । भूतु । अविता । तनूनाम् ॥ हत्वाय । देवा: । असुरान् । यत् । आयन् । देवा: । देवऽत्वम् । अभिऽरक्षमाणा: ॥१२४.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 5
भाषार्थ -
(इन्द्रः) परमेश्वर (आदित्यैः) आदित्य ब्रह्मचारियों, और (मरुद्भिः) उपासना-यज्ञों के ऋत्विजों के द्वारा, (सगणः) इनका संगी होकर, (अस्माकम्) हमारे (तनूनाम्) स्थूलशरीरों, और कारण-शरीरों का (अविता भूतु) रक्षक हो। (यद्) जब कि (देवाः) दिव्य उपासक, (देवत्वम्) अपनी दिव्यता की (अभि रक्षमाणाः) रक्षा करते हुए, (असुरान् हत्वाय) आसुरी-विचारों और आसुरी-कर्मों का हनन करके (देवत्वम् आयन्) दिव्यता को प्राप्त हो जाते, और (देवाः) देव बन जाते हैं।
टिप्पणी -
[मरुदिभ्=मरुतः ऋत्विङ्नाम (निघं০ ३.१८)।]