अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 7
यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते। अ॑ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥
स्वर सहित पद पाठयम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम । इ॒दम् । हु॒वे॒ । स: । इत् । ऊं॒ इति॑ । हव्य॑: । द॒दि: । य: । नाम॑ । पत्य॑ते ॥ अ॒ध्व॒र्युभि॑: । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒ण॒:ऽद॒: । पिब॑ । ऋ॒तुऽभि॑: ॥६७.७॥
स्वर रहित मन्त्र
यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते। अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
स्वर रहित पद पाठयम् । ऊं इति । पूर्वम् । अहुवे । तम । इदम् । हुवे । स: । इत् । ऊं इति । हव्य: । ददि: । य: । नाम । पत्यते ॥ अध्वर्युभि: । प्रऽस्थितम् । सोम्यम् । मधु । पोत्रात् । सोमम् । द्रविण:ऽद: । पिब । ऋतुऽभि: ॥६७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 7
भाषार्थ -
(यम् उ) जिसका (पूर्वम्) पहिले (अहुवे) मैं आह्वान करता रहा हूँ, (इदम्) अब भी (तम्) उसका (हुवे) मैं आह्वान करता हूँ। क्योंकि (स इत् उ) वह ही (हव्यः) सहायता के लिए आह्वान के योग्य है, (यः) जो कि (ददिः) सबका दाता है, और जो (नाम) सर्वप्रसिद्ध है, तथा (पत्यते) ऐश्वर्यवान् है। (द्रविणोदः) हे धन और बल के दाता! (अध्वर्युभिः) हिंसारहित उपासना-यज्ञों के रचयिताओं द्वारा और (पोत्रात्) मुझ-पवित्र उपासक द्वारा (प्रस्थितम्) समर्पित (सोम्यम्) दुग्ध समान (मधु) मधुर (सोमम्) भक्तिरस का (पिब) पान कीजिए, (ऋतुभिः) प्रत्येक ऋतु में समर्पित भक्तिरस का पान कीजिए।
टिप्पणी -
[सोम्यम्=दुग्धसमान। देखो पूर्व मन्त्र ५ की टिप्पणी। पत्यते=पत् ऐश्वर्ये।]