अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
सर्वं॒ तद्राजा॒ वरु॑णो॒ वि च॑ष्टे॒ यद॑न्त॒रा रोद॑सी॒ यत्प॒रस्ता॑त्। संख्या॑ता अस्य नि॒मिषो॒ जना॑नाम॒क्षानि॑व श्व॒घ्नी नि मि॑नोति॒ तानि॑ ॥
स्वर सहित पद पाठसर्व॑म् । तत् । राजा॑ । वरु॑ण: । वि । च॒ष्टे॒ । यत् । अ॒न्त॒रा । रोद॑सी इति॑ । यत् । प॒रस्ता॑त् । सम्ऽख्या॑ता: । अ॒स्य॒ । नि॒ऽमिष॑: । जना॑नाम् । अ॒क्षान्ऽइ॑व । श्व॒ऽघ्नी । नि । मि॒नो॒ति॒ । तानि॑ ॥१६.५॥
स्वर रहित मन्त्र
सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्। संख्याता अस्य निमिषो जनानामक्षानिव श्वघ्नी नि मिनोति तानि ॥
स्वर रहित पद पाठसर्वम् । तत् । राजा । वरुण: । वि । चष्टे । यत् । अन्तरा । रोदसी इति । यत् । परस्तात् । सम्ऽख्याता: । अस्य । निऽमिष: । जनानाम् । अक्षान्ऽइव । श्वऽघ्नी । नि । मिनोति । तानि ॥१६.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 5
भाषार्थ -
(वरुण: राजा) वरुण राजा (तद् सर्वम्) उस सबको (वि चष्टे) विवेकपूर्वक देखता है, (यत्) जोकि (रोदसी) द्युलोक और पृथिवी के (अन्तरा) अन्तराल में है, (यत्) और जो (परस्तात्) उससे परे है। (जनानाम्) जनों के (निमिष:) निमेष-उन्मेष (अस्य) इस वरुण के (संख्याताः) गिने हुए हैं, (तानि) उन गिने निमेष-उन्मेषों को अर्थात् अक्षिस्पन्दनों को, वह वरुण ही (निमिनोति) प्रक्षिप्त प्रेरित करता है, (इव) जैसे कि (श्वघ्नी) अपने भविष्य का हनन करनेवाला जुआ-खिलाड़ी, (अक्षान्) पासों को [आस्फार में] (नि मिनोति) फेंकता है [स्वविजय की भावना से।]
टिप्पणी -
[आस्फार=क्रीडाफलक। श्वः उपाशंसनीयः कालः (निरुक्त १।३।६) श्वघ्नी= श्वः घ्नी। निमिनोति= डुमिञ् निक्षेपणे (स्वादिः)। “श्वघ्नी= स्वम् आत्मानम्, स्वकीयं धनं च हन्तीति कितवः श्वघ्नी” (सायण), “श्वघ्नी कितवो भवति। स्वं हन्ति” (निरुक्त ५।२२)। निमिनोति =डुमिञ् प्रक्षेपणे (स्वादिः)।]