अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
यस्तिष्ठ॑ति॒ चर॑ति॒ यश्च॑ वञ्चति॒ यो नि॒लायं॒ चर॑ति॒ यः प्र॒तङ्क॑म्। द्वौ सं॑नि॒षद्य॒ यन्म॒न्त्रये॑ते॒ राजा॒ तद्वे॑द॒ वरु॑णस्तृ॒तीयः॑ ॥
स्वर सहित पद पाठय: । तिष्ठ॑ति । चर॑ति । य: । च॒ । वञ्च॑ति । य: । नि॒ऽलाय॑म् । चर॑ति । य: । प्र॒ऽङ्क॑म् । द्वौ । स॒म्ऽनि॒षद्य॑ । यत् । म॒न्त्रय॑ते॒ । इति॑ । राजा॑ । तत् । वे॒द॒ । वरु॑ण: । तृ॒तीय॑: ॥१६.२॥
स्वर रहित मन्त्र
यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम्। द्वौ संनिषद्य यन्मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥
स्वर रहित पद पाठय: । तिष्ठति । चरति । य: । च । वञ्चति । य: । निऽलायम् । चरति । य: । प्रऽङ्कम् । द्वौ । सम्ऽनिषद्य । यत् । मन्त्रयते । इति । राजा । तत् । वेद । वरुण: । तृतीय: ॥१६.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 2
भाषार्थ -
(यः) जो कोई (तिष्ठति) खड़ा है, (चरति) या चल रहा है, (यः च) और जो (वञ्चति) धोखा देता है. (यः) जो (निलायम, वरति) छिप-छिपकर चलता है, (यः प्रतङ्कम्) जो दूसरे को कष्ट पहुंचाकर छिपे-छिपे विचरता है, (द्वौ) दो (सम् निषद्य) परस्पर मिल-बैठकर, (यत्) जो, (मन्त्रयेते) गुप्त परिभाषण करते हैं, (वरुणः राजा) जगत् का राजा वरुण, (तृतीयः) उनमें तीसरा हुआ, (तत् वेद) उसे जानता है।
टिप्पणी -
[मन्त्रयेते= मत्रि गुप्तपरिभाषणे (चुरादिः)। प्रतङ्कम= तकि कृच्छ्रजीवने, यथा “तङ्कति कृच्छ्रेण जीवति” (उणा० १।५७; दयानन्दः) तथा तकि कृच्छ्रजीवने (सायण)।]