अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
उ॒तेयं भूमि॒र्वरु॑णस्य॒ राज्ञ॑ उ॒तासौ द्यौर्बृ॑ह॒ती दूरेअन्ता। उ॒तो स॑मु॒द्रौ वरु॑णस्य कु॒क्षी उ॒तास्मिन्नल्प॑ उद॒के निली॑नः ॥
स्वर सहित पद पाठउ॒त । इ॒यम् । भूमि॑: । वरु॑णस्य । राज्ञ॑: । उ॒त । अ॒सौ । द्यौ: । बृ॒ह॒ती । दू॒रेऽअ॑न्ता । उ॒तो इति॑ । स॒मु॒द्रौ । वरु॑णस्य । कु॒क्षी इति॑ । उ॒त । अ॒स्मिन् । अल्पे॑ । उ॒द॒के । निऽली॑न: ॥१६.३॥
स्वर रहित मन्त्र
उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता। उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्नल्प उदके निलीनः ॥
स्वर रहित पद पाठउत । इयम् । भूमि: । वरुणस्य । राज्ञ: । उत । असौ । द्यौ: । बृहती । दूरेऽअन्ता । उतो इति । समुद्रौ । वरुणस्य । कुक्षी इति । उत । अस्मिन् । अल्पे । उदके । निऽलीन: ॥१६.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 3
भाषार्थ -
(उत) तथा (इयम्, भूमिः) यह भूमि (वरुणस्य राज्ञः) वरुण राजा की है, (उत) तथा (असौ) वह बृहती (द्यौः) बड़ा द्युलोक [वरुण राजा का है], (दुरे अन्ता) दूर और समीप में विद्यमान द्यौः और पृथिवी [वरुण राजा के हैं]। (उतो) तथा (समुद्रौ) दो समुद्र (वरुणस्य) वरुण की (कुक्षी) दो कोखें हैं, (उत) तथा (अस्मिन् अल्पे, उदके) इस अल्प उदक में (निलीनः) वह नितरां लीन हुआ-हुआ है ।
टिप्पणी -
[दूरे= दूर में द्यौ:, अन्ते, अन्तिके, समीप में पृथिवी। “दूरे-अन्ते-द्यावा-पृथिवीनाम” (निघं० ३।३०)। समुद्रौ=पूर्व और पश्चिम के समुद्र। अल्पे उदके=उदक विन्दु में। लीन:=ली श्लेषणे (क्र्यादिः) लीङ श्लेषणे (दिवादिः)।]