अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 1
सूक्त - अथर्वा
देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रदेवी सुक्त
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः। अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
स्वर सहित पद पाठअ॒हम् । रु॒द्रेभि॑: । वसु॑ऽभि: । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यै: । उ॒त । वि॒श्वऽदे॑वै: । अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥३०.१॥
स्वर रहित मन्त्र
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः। अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥
स्वर रहित पद पाठअहम् । रुद्रेभि: । वसुऽभि: । चरामि । अहम् । आदित्यै: । उत । विश्वऽदेवै: । अहम् । मित्रावरुणा । उभा । बिभर्मि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा ॥३०.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 1
भाषार्थ -
(अहम्) मैं वाक्-पारमेश्वरी माता (वसुभिः) वसुओं के संग (चरामि) चलती हूं (अहम्) मैं (आदित्यै:) आदित्यों के संग, (उत) तथा (विश्वदेवः) अन्य सब देवों के संग [चलती हूं] (अहम्) मैं (मित्रावरुणा उभा) मित्र और वरुण, दोनों का (बिभर्मि) भरण-पोषण करती हूँ, (अहम्) मैं (इन्द्राग्नी) इन्द्र और अग्नि का (अहम्) मैं (अश्विना उभा) दोनों अश्वियों का [भरण पोषण करती हूं।]।
टिप्पणी -
[मानुषी-माता शिशुओं को लेकर उन्हें चलाने के लिए उनके संग-संग चलती है। वसु आदि पारमेश्वरी माता के शिशुरूप हैं, यह मन्त्र का अभिप्राय है। वसवः आदि, यथा– वसवः= अग्निश्च पृथिवी च, वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च, चन्द्रमाश्च नक्षत्राणि चैते वसवः। एतेषु हीदं वसु सर्वं हितमिति तस्माद् वसव इति ॥३॥ रुद्राः= दशेमे पुरुषे प्राणा आत्मैकादशः, ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति, तद् यद्रोदयन्ति तस्माद्रुद्रा इति॥४॥ आदित्या:=द्वादश वै मासाः [संवत्सरः] आदित्या:, एते हीदं सर्वमाददाना यन्ति, ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति॥५॥ (बृहदा० उप० ३।९।३-५)। विश्वेदेवाः= वसुरुद्रादित्यव्यतिरिक्ता गणशा [तारामण्डल] वर्तमाना विश्वदेवाख्याः (सायण)। मित्रावरुणा= मित्रावरुणौ= मित्र 'सूर्यः' वरुण 'चन्द्रमा'। इन्द्राग्नी= विद्युत तथा पार्थिवानि। अश्विना= अश्विनौ 'अहोरात्रौ' (निरुक्त १२।१।१)।]