अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 5
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः, आपः, राज्याभिषेकः
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - राज्यभिषेक सूक्त
या आपो॑ दि॒व्याः पय॑सा॒ मद॑न्त्य॒न्तरि॑क्ष उ॒त वा॑ पृथि॒व्याम्। तासां॑ त्वा॒ सर्वा॑साम॒पाम॒भि षि॑ञ्चामि॒ वर्च॑सा ॥
स्वर सहित पद पाठया: । आप॑: । दि॒व्या: । पय॑सा । मद॑न्ति । अ॒न्तरि॑क्षे । उ॒त । वा॒ । पृ॒थि॒व्याम् । तासा॑म् । त्वा॒ । सर्वा॑साम् । अ॒पाम् । अ॒भि । सि॒ञ्चा॒मि॒ । वर्च॑सा ॥८.५॥
स्वर रहित मन्त्र
या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम्। तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥
स्वर रहित पद पाठया: । आप: । दिव्या: । पयसा । मदन्ति । अन्तरिक्षे । उत । वा । पृथिव्याम् । तासाम् । त्वा । सर्वासाम् । अपाम् । अभि । सिञ्चामि । वर्चसा ॥८.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 5
भाषार्थ -
(याः दिव्याः आपः) जो दिव्य जल (पयसा) सारभूत रस द्वारा (मदन्ति) प्राणियों को तृप्त करते हैं, (अन्तरिक्षे) जो अन्तरिक्ष में स्थित (उत) तथा (पृथिव्याम्) पृथिवी में स्थित हैं, (तासाम्, सर्वासाम् अपाम्) उन सब जलों के (वर्चसा) वर्चस् द्वारा (त्वा) हे राजन् ! तुझे (अभिषिञ्चामि) में अभिषिक्त करता हूँ, तेरा राज्याभिषेक करता हूँ।
टिप्पणी -
[मदन्ति = तर्पयन्ति, मद् तृप्तियोगे (चुरादिः)। राज्याभिषेक के लिए देखें, यजुर्वेद (१०।१-४)।]