Loading...
अथर्ववेद > काण्ड 6 > सूक्त 102

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 1
    सूक्त - जमदग्नि देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - अभिसांमनस्य सूक्त

    यथा॒यं वा॒हो अ॑श्विना स॒मैति॒ सं च॒ वर्त॑ते। ए॒वा माम॒भि ते॒ मनः॑ स॒मैतु॒ सं च॑ वर्तताम् ॥

    स्वर सहित पद पाठ

    यथा॑ । अ॒यम् । वा॒ह: । अ॒श्वि॒ना॒ । स॒म्ऽऐति॑ । सम् । च॒ । वर्त॑ते । ए॒व । माम् । अ॒भि । ते॒ । मन॑: । स॒म्ऽऐतु॑ । सम् । च॒ । व॒र्त॒ता॒म् ॥१०२.१॥


    स्वर रहित मन्त्र

    यथायं वाहो अश्विना समैति सं च वर्तते। एवा मामभि ते मनः समैतु सं च वर्तताम् ॥

    स्वर रहित पद पाठ

    यथा । अयम् । वाह: । अश्विना । सम्ऽऐति । सम् । च । वर्तते । एव । माम् । अभि । ते । मन: । सम्ऽऐतु । सम् । च । वर्तताम् ॥१०२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 1

    भाषार्थ -
    (अश्विना = अश्विनौ) हे दो अश्वियो ! (यथा) जैसे (अयम्) यह (वाहः) रथवाहक अश्व (समैति) [रथ में जुतने के लिये] सम्यक् प्रकार से, अर्थात् विना प्रतिरोध के आ जाता है, (च) और [मार्ग पर] (सम् वर्तते) सम्यक् प्रकार से वर्तता है, चलता है, (एवा) इसी प्रकार [हे पत्नी] (ते मनः) तेरा मन (माम् अभि) मुझ पति के अभिमुख (समैतु) सम्यक् प्रकार से आये, प्रवृत्त हो, (च) और (सम् वर्तताम्) सम्यक् बर्ताव करे।

    इस भाष्य को एडिट करें
    Top