अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 5
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
अ॑र॒सस्य॑ श॒र्कोट॑स्य नी॒चीन॑स्योप॒सर्प॑तः। वि॒षं ह्यस्यादि॒ष्यथो॑ एनमजीजभम् ॥
स्वर सहित पद पाठअ॒र॒सस्य॑ । श॒र्कोट॑स्य । नी॒चीन॑स्य । उ॒प॒ऽसर्प॑त: । वि॒षम् । हि । अ॒स्य॒ । आ॒ऽअदि॑षि । अथो॒ इति॑ । ए॒न॒म् । अ॒जी॒ज॒भ॒म् ॥५८.५॥
स्वर रहित मन्त्र
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः। विषं ह्यस्यादिष्यथो एनमजीजभम् ॥
स्वर रहित पद पाठअरसस्य । शर्कोटस्य । नीचीनस्य । उपऽसर्पत: । विषम् । हि । अस्य । आऽअदिषि । अथो इति । एनम् । अजीजभम् ॥५८.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 5
भाषार्थ -
(अरसस्य) निर्वीर्य (नीचीनस्य) नीचे पृथिवी पर विचरते हुए, (उपसर्पतः) समीप आते हुए (अस्य शर्कोटस्य१) इस विच्छू ? के (विषम् हि) विष को (आ अदिषि) मैंने खण्डित कर दिया है (अथो) तथा (एनम्) इसे (अजीजभम्) मार दिया है।
टिप्पणी -
[मन्त्र (६-८) से शर्कोट बिच्छु प्रतीत होता है, यतः यह पूंछ में विष वाला है। अदिषि= लुङ् लकार, दो अवखण्डने (दिवादिः)। अजीजभम् =जभि नाशने (चुरादिः)]। [१. "शर्कोट" शर् शॄ (हिंसायाम्) + कः (करोति) + अट् (अटति), हिंसा करता हुआ जो विचरता है।]