अथर्ववेद - काण्ड 9/ सूक्त 9/ मन्त्र 22
सूक्त - ब्रह्मा
देवता - वामः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भ॒क्षमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति। ए॒ना विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥
स्वर सहित पद पाठयत्र॑ । सु॒ऽप॒र्णा: । अ॒मृत॑स्य । भ॒क्षम् । अनि॑ऽमेषम् । वि॒दथा॑ । अ॒भि॒ऽस्वर॑न्ति । ए॒ना । विश्व॑स्य । भुव॑नस्य । गो॒पा: । स: । मा॒ । धीर॑: । पाक॑म् । अत्र॑ । आ । वि॒वे॒श॒ ॥१४.२२॥
स्वर रहित मन्त्र
यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति। एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥
स्वर रहित पद पाठयत्र । सुऽपर्णा: । अमृतस्य । भक्षम् । अनिऽमेषम् । विदथा । अभिऽस्वरन्ति । एना । विश्वस्य । भुवनस्य । गोपा: । स: । मा । धीर: । पाकम् । अत्र । आ । विवेश ॥१४.२२॥
अथर्ववेद - काण्ड » 9; सूक्त » 9; मन्त्र » 22
भाषार्थ -
(यत्र) जिस परमेश्वर में, (सुपर्णाः) शोभन कर्मों वाले जीवात्मा (विदथ) ज्ञानपूर्वक (अमृतस्य भक्षम्) मोक्षसुख के भोग को,– (अनिमिषम्) निमेषमात्र काल के व्यवधान के भी विना, अर्थात् सर्वदा (अभिस्वरन्ति) परमेश्वर की साक्षात् स्तुति करते हुए, प्राप्त करते हैं, (सः) वह (विश्वस्य भुवनस्य) समग्र ब्रह्माण्ड का (एना= इनः) स्वामी, (गोपाः) रक्षक (धीर) ज्ञानवान् परमेश्वर (अत्र) इस जीवन में, (पाकम् सा) मुझ पवित्र में (आ विवेश) प्रविष्ट हुआ है, मेरे हृदय में प्रविष्ट हो गया है, साक्षात् हो गया है।
टिप्पणी -
[सुपर्णाः = सुपतनाः सुगमनाः "शोभन कर्मों वाले" (म० दयानन्द)। एना= इनः (ऋ० १।१६४।२१)। मन्त्र २०, २१, २२ के अर्थ ऋ० १।१६४ पर महर्षि दयानन्दकृत भाष्य के आधार पर किये हैं। धीरः=धीः (ज्ञान) +रः (वाला)। यथा मधु और मधुरः]।