अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 23
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - पुरोबार्हतातिजागतगर्भा त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
दे॒वाना॑मे॒तत्प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्। तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ॥
स्वर सहित पद पाठदे॒वाना॑म् । ए॒तत् । प॒रि॒ऽसू॒तम् । अन॑भिऽआरूढम् । च॒र॒ति॒ । रोच॑मानम् । तस्मा॑त् । जा॒तम् । ब्राह्म॑णम् । ब्रह्म॑ । ज्ये॒ष्ठम् । दे॒वा: । च॒ । सर्वे॑ । अ॒मृते॑न । सा॒कम् ॥७.२३॥
स्वर रहित मन्त्र
देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम्। तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥
स्वर रहित पद पाठदेवानाम् । एतत् । परिऽसूतम् । अनभिऽआरूढम् । चरति । रोचमानम् । तस्मात् । जातम् । ब्राह्मणम् । ब्रह्म । ज्येष्ठम् । देवा: । च । सर्वे । अमृतेन । साकम् ॥७.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 23
Translation -
God, the Goader of all luminous worlds, Unconquerable, exists, shining brightly. From Him springs the Vedic knowledge about God, and come into existence all learned persons enjoying salvation.