यजुर्वेद - अध्याय 31/ मन्त्र 2
ऋषिः - नारायण ऋषिः
देवता - ईशानो देवता
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
0
पुरु॑षऽए॒वेदꣳ सर्वं॒ यद्भू॒तं यच्च॑ भाव्यम्।उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति॥२॥
स्वर सहित पद पाठपुरु॑षः। ए॒व। इ॒दम। सर्व॑म्। यत्। भू॒तम्। यत्। च॒। भा॒व्य᳖म् ॥ उ॒त। अ॒मृ॒तत्वस्येत्य॑मृत॒ऽत्वस्य॑। ईशा॑नः। यत्। अन्ने॑न। अ॒ति॒रोहतीत्य॑ति॒ऽरोह॑ति ॥२ ॥
स्वर रहित मन्त्र
पुरुष एवेदँ सर्वँयद्भूतञ्यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
स्वर रहित पद पाठ
पुरुषः। एव। इदम। सर्वम्। यत्। भूतम्। यत्। च। भाव्यम्॥ उत। अमृतत्वस्येत्यमृतऽत्वस्य। ईशानः। यत्। अन्नेन। अतिरोहतीत्यतिऽरोहति॥२॥
मन्त्रार्थ -
(पुरुषः-एव-अमृतत्वस्य-ईशानः) परम पुरुष परमात्मा ही अमृतत्व-मोक्ष का स्वामी है- अधिष्ठाता है (उत) अपितु (इदं सर्वं यत्-भूतं यत् च भाव्यम्-यत्-अन्नेन-अति रोहति) यह सब वर्तमान और जो भूत तथा जो होने वाला जगत् है उसका भी और जो अन्न से आहार से बढाता है उसका भी 'पुरुषः-ईशानः' परमात्मा स्वामी है अधिष्ठाता है ॥२॥
टिप्पणी -
विश्वतो वृत्वा 'इति ऋग्वेदे' अर्थः समान एव तस्य सर्वस्य पुरुष ईशानः-इत्यकांक्षा ददिदं जातं वर्तमानं सर्व जगत् पुरुष एव नेदं वस्तुतत्वम् (सारण:) इत्ययुक्तम् “इदं वर्त्तमानं सर्वे यच्च भूतमतीवं यच्च भाव्यं भविष्यत् तस्य कालत्रयस्य ईशानः । न केवलं कालत्रयस्य ईशानः । उत अमृतत्वस्यापि मोक्षस्यापि ईशानः ( उव्वटः ) यत् जीवजातमन्नेनातिरोहति उत्पद्यते तस्य सर्वस्य चेशानः । ब्रह्मादिस्तम्बपर्यन्तो भूतग्राम उक्तः तस्याऽन्नेनैव स्थितेः (महीधर:)
विशेष - (ऋग्वेद मं० १० सूक्त ६०) ऋषि:- नारायणः १ - १६ । उत्तरनारायणः १७ – २२ (नारा:आपः जल है आप: नर जिसके सूनु है- सन्तान हैं, ऐसे वे मानव उत्पत्ति के हेतु-भूत, अयन-ज्ञान का आश्रय है जिसका बह ऐसा जीवजन्मविद्या का ज वाला तथा जनकरूप परमात्मा का मानने वाला आस्तिक महाविद्वान् ) देवता - पुरुष: १, ३, ४, ६, ८–१६। ईशानः २। स्रष्टा ५। स्रष्टेश्वरः ७। आदित्यः १७-१९, २२। सूर्य २०। विश्वे देवाः २१। (पुरुष- समष्टि में पूर्ण परमात्मा)
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal