यजुर्वेद - अध्याय 26/ मन्त्र 11
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः। अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ऽइन्द्रं॑ गी॒र्भिर्न॑वामहे॥११॥
स्वर सहित पद पाठतम्। वः॒। द॒स्मम्। ऋ॒ती॒षह॑म्। ऋ॒ति॒सह॒मित्यृति॒ऽसह॑म्। वसोः॑। म॒न्दा॒नम्। अन्ध॑सः। अ॒भि। व॒त्सम्। न। स्वस॑रेषु। धे॒नवः॑। इन्द्र॑म्। गी॒र्भिरिति॑ गी॒ऽभिः। न॒वा॒म॒हे॒ ॥११ ॥
स्वर रहित मन्त्र
तँवो दस्ममृतीषहँवसोर्मन्दानमन्धसः । अभि वत्सन्न स्वसरेषु धेनवऽइन्द्रङ्गीर्भिर्नवामहे ॥
स्वर रहित पद पाठ
तम्। वः। दस्मम्। ऋतीषहम्। ऋतिसहमित्यृतिऽसहम्। वसोः। मन्दानम्। अन्धसः। अभि। वत्सम्। न। स्वसरेषु। धेनवः। इन्द्रम्। गीर्भिरिति गीऽभिः। नवामहे॥११॥
विषयः - पुना राजा किं कुर्यादित्याह॥
अन्वयः - हे मनुष्याः! वयं स्वसरेषु धेनवो वत्सं न यं दस्ममृतीषहं वसोरन्धसो मन्दानिमिन्द्रं वो गीभिरभि नवामहे तथा तं भवन्तोऽपि सदा प्रीतिभावेन स्तुवन्तु॥११॥
पदार्थः -
(तम्) (वः) युष्मभ्यम् (दस्मम्) दुःखोपक्षयितारम् (ऋतीषहम्) गतिसहम्। अत्र संहितायाम्। [अ॰६.३.११४] इति दीर्घः (वसोः) धनस्य (मन्दानम्) आनन्दन्तम् (अन्धसः) अन्नस्य (अभि) सर्वतः (वत्सम्) (न) इव (स्वसरेषु) दिनेषु (धेनवः) गावः (इन्द्रम्) परमैश्वर्यवन्तम् (गीर्भिः) वाग्भिः (नवामहे) स्तुवीमहे॥११॥
भावार्थः - अत्रोपमालङ्कारः। यथा गावः प्रतिदिनं स्वं स्वं वत्सं पालयन्ति तथैव प्रजारक्षकः पुरुषः प्रजा नित्यं रक्षेत् प्रजायै धनधान्यैः सुखानि वर्धयेत्॥११॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal