यजुर्वेद - अध्याय 26/ मन्त्र 9
ऋषिः - कुत्स ऋषिः
देवता - वैश्वनरो देवता
छन्दः - स्वराड् जगती
स्वरः - निषादः
6
अ॒ग्निर्ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः। तमी॑महे महाग॒यम्। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑सऽए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से॥९॥
स्वर सहित पद पाठअ॒ग्निः। ऋषिः॑। पव॑मानः। पाञ्च॑जन्य॒ इति॒ पाञ्च॑ऽजन्यः। पु॒रोहि॑त॒ इति॑ पु॒रःऽहि॑तः। तम्। ई॒म॒हे॒। म॒हा॒ग॒यमिति॑ महाऽग॒यम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ग्नये॑। त्वा॒। वर्च॑से। ए॒षः। ते। योनिः॑। अ॒ग्नये॑। त्वा॒। वर्च॑से ॥९ ॥
स्वर रहित मन्त्र
अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् । उपयामगृहीतोस्यग्नये त्वा वर्चसेऽएष ते योनिरग्नये त्वा वर्चसे ॥
स्वर रहित पद पाठ
अग्निः। ऋषिः। पवमानः। पाञ्चजन्य इति पाञ्चऽजन्यः। पुरोहित इति पुरःऽहितः। तम्। ईमहे। महागयमिति महाऽगयम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। अग्नये। त्वा। वर्चसे। एषः। ते। योनिः। अग्नये। त्वा। वर्चसे॥९॥
विषयः - पुनः कैः कस्मात् किं याचनीयमित्याह॥
अन्वयः - हे मनुष्या यः पाञ्चजन्यः पुरोहितः पवमान ऋषिरग्निरस्ति तं महागयं यथा वयमीमहे तथा त्वं वर्चसेऽग्नय उपयामगृहीतोऽसि तस्मात् त्वा यस्यैष ते योनिर्वर्चसेऽग्नयेऽस्ति तं त्वा च वयमीमहे तथैतं यूयमपीहध्वम्॥९।
पदार्थः -
(अग्निः) पावकवद्विद्यया प्रकाशितः (ऋषिः) मन्त्रार्थवेत्ता (पवमानः) पवित्रः (पाञ्चजन्यः) पञ्चानां पञ्चसु वा जनेषु साधु (पुरोहितः) पुरस्ताद्धितकारी (तम्) (ईमहे) याचामहे (महागयम्) महान्तो गया गृहाणि प्रजा धनं वा यस्य तम्। गयमिति गृहनामसु पठितम्॥ (निघं॰ २।२। धनना॰ च। निघं॰ २। १०।) (उपयामगृहीतः) (असि) (अग्नये) विदुषे (त्वा) त्वाम् (वर्चसे) अध्यापनाय (एषः) (ते) (योनिः) निमित्तम् (अग्नये) (त्वा) त्वाम् (वर्चसे) विद्याप्रकाशाय॥९॥
भावार्थः - सर्वैर्मनुष्यैर्वेदशास्त्रविद्भ्यो विद्वद्भ्यः सदा विद्याप्राप्तिर्याचनीया येन महत्त्वं प्राप्नुयुः॥९॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal