Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 11
    ऋषिः - अग्निर्ऋषिः देवता - अग्निर्देवता छन्दः - उष्णिक् स्वरः - ऋषभः
    6

    ऊ॒र्ध्वाऽ अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीष्य॒ग्नेः।द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः॥११॥

    स्वर सहित पद पाठ

    ऊ॒र्ध्वाः। अ॒स्य॒। स॒मिध॒ इति॑ स॒म्ऽइधः॑। भ॒व॒न्ति॒। ऊ॒र्ध्वा। शु॒क्रा। शो॒चीषि॑। अ॒ग्नेः। द्यु॒मत्त॒मेति॑ द्यु॒मत्ऽत॑मा। सु॒प्रती॑क॒स्येति॑ सु॒ऽप्रती॑कस्य। सू॒नोः ॥११ ॥


    स्वर रहित मन्त्र

    ऊर्ध्वाऽअस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीँष्यग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोः ॥


    स्वर रहित पद पाठ

    ऊर्ध्वाः। अस्य। समिध इति सम्ऽइधः। भवन्ति। ऊर्ध्वा। शुक्रा। शोचीषि। अग्नेः। द्युमत्तमेति द्युमत्ऽतमा। सुप्रतीकस्येति सुऽप्रतीकस्य। सूनोः॥११॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 11
    Acknowledgment

    अन्वयः - हे मनुष्याः! यस्याऽस्य सुप्रतीकस्य सूनोरग्नेरूर्ध्वाः समिध ऊर्ध्वा द्युमत्तमा शुक्रा शोचींषि भवन्ति तं विजानीत॥११॥

    पदार्थः -
    (ऊर्ध्वाः) उत्तमाः (अस्य) (समिधः) सम्यक् प्रदीपिकाः (भवन्ति) (ऊर्ध्वाः) ऊर्ध्वानि (शुक्रा) शुद्धानि (शोचींषि) तेजांसि (अग्नेः) पावकस्य (द्युमत्तमा) अतिशयेन प्रशस्तप्रकाशयुक्तानि (सुप्रतीकस्य) शोभनानि प्रतीकानि प्रतीतिकराणि कर्माणि यस्य तस्य (सूनोः) प्राणिगर्भविमोचकस्य॥११॥

    भावार्थः - हे मनुष्याः! योऽयमूर्ध्वगन्ता सर्वदर्शनहेतुः सर्वेषां पालननिमित्तोऽग्निरस्ति, तं विज्ञाय कार्याणि सततं साध्नुत॥११॥

    इस भाष्य को एडिट करें
    Top