Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 30
    ऋषिः - पुरुमीढ ऋषिः देवता - वायुर्देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    6

    वायो॑ शु॒क्रोऽ अ॑यामि ते॒ मध्वो॒ऽअग्रं॒ दिवि॑ष्टिषु। आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता॥३०॥

    स्वर सहित पद पाठ

    वायो॒ऽइति॒ वायो॑। शु॒क्रः। अ॒या॒मि॒। ते॒। मध्वः॑। अग्र॑म्। दिवि॑ष्टिषु। आ। या॒हि॒। सोम॑ऽपीतय॒ इति॒ सोम॑पीतये। स्पा॒र्हः। दे॒व॒। नि॒युत्व॑ता ॥३० ॥


    स्वर रहित मन्त्र

    वायो शुक्रोऽअयामि ते मध्वोऽअग्रंदिविष्टिषु । आ याहि सोमपीतये स्पार्हा देव नियुत्वता ॥


    स्वर रहित पद पाठ

    वायोऽइति वायो। शुक्रः। अयामि। ते। मध्वः। अग्रम्। दिविष्टिषु। आ। याहि। सोमऽपीतय इति सोमपीतये। स्पार्हः। देव। नियुत्वता॥३०॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 30
    Acknowledgment

    अन्वयः - हे वायो! यो वायुरिव शुक्रस्त्वमसि ते मध्वोग्रं दिविष्टिष्वहमयामि। हे देव! स्पार्हस्त्वं नियुत्वता सह सोमपीतय आयाहि॥३०॥

    पदार्थः -
    (वायो) वर्त्तमान वायुरिव (शुक्रः) शुद्धिकरः (अयामि) प्राप्नोमि (ते) तव (मध्वः) मधुरस्य (अग्रम्) उत्तमं भागम् (दिविष्टिषु) दिव्यासु सङ्गतिषु (आ, याहि) (सोमपीतये) सदोषधिरसपानाय (स्पार्हः) यः स्पृहयति तस्याऽयम् (देव) दिव्यगुणसम्पन्न (नियुत्वता) वायुना सह॥३०॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा वायुः सर्वान् रसगन्धादीन् पीत्वा सर्वान् पोषयति तथा त्वं सर्वान् पुषाण॥३०॥

    इस भाष्य को एडिट करें
    Top