Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 32
    ऋषिः - गृत्समद ऋषिः देवता - वायुर्देवता छन्दः - गायत्री स्वरः - षड्जः
    6

    वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि।नि॒युत्वा॒न्त्सोम॑पीतये॥३२॥

    स्वर सहित पद पाठ

    वायो॒ इति॒ वायो॑। ये। ते॒। स॒ह॒स्रिणः॑। रथा॑सः। तेभिः॑। आ। ग॒हि॒। नि॒युत्वा॑न्। सोम॑पीतय॒ इति॒ सोम॑ऽपीतये ॥३२ ॥


    स्वर रहित मन्त्र

    वायो ये ते सहस्रिणो रथासस्तेभिरागहि । नियुत्वान्त्सोमपीतये ॥


    स्वर रहित पद पाठ

    वायो इति वायो। ये। ते। सहस्रिणः। रथासः। तेभिः। आ। गहि। नियुत्वान्। सोमपीतय इति सोमऽपीतये॥३२॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 32
    Acknowledgment

    अन्वयः - हे वायो वायुरिव वर्त्तमान विद्वन्! ये ते सहस्रिणो रथासः सन्ति, तेभिः सह नियुत्वान्त्संस्त्वं सोमपीतय आ गहि॥३२॥

    पदार्थः -
    (वायो) पवनवद्वर्त्तमान (ये) (ते) तव (सहस्रिणः) प्रशस्ताः सहस्रं जना विद्यन्ते येषु ते (रथासः) रमणीयानि यानानि (तेभिः) तैः (आ) (गहि) प्राप्नुहि (नियुत्वान्) समर्थः सन् (सोमपीतये) सोमस्य पानाय॥३२॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा वायोरसंख्या रमणीया गतयः सन्ति, तथा विविधाभिर्गतिभिः समर्था भूत्वैश्वर्यं भुङ्ग्ध्वम्॥३२॥

    इस भाष्य को एडिट करें
    Top