Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 12
    ऋषिः - अग्निर्ऋषिः देवता - विश्वेदेवा देवताः छन्दः - उष्णिक् स्वरः - ऋषभः
    7

    तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः।प॒थो अ॑नक्तु॒ मध्वा॑ घृ॒तेन॑॥१२॥

    स्वर सहित पद पाठ

    तनू॒नपा॒दिति॒ तनू॒ऽनपा॑त्। असु॑रः। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवे॑दाः। दे॒वः। दे॒वेषु॑। दे॒वः। प॒थः। अ॒न॒क्तु॒। मध्वा॑। घृ॒तेन॑ ॥१२ ॥


    स्वर रहित मन्त्र

    तनूनपादसुरो विश्ववेदा देवो देवेषु देवः । पथोऽअनक्तु मध्वा घृतेन् ॥


    स्वर रहित पद पाठ

    तनूनपादिति तनूऽनपात्। असुरः। विश्ववेदा इति विश्वऽवेदाः। देवः। देवेषु। देवः। पथः। अनक्तु। मध्वा। घृतेन॥१२॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 12
    Acknowledgment

    अन्वयः - हे मनुष्याः! यो देवेषु देवोऽसुरो विश्ववेदास्तनूनपाद्देवो मध्वा घृतेन सह पथोऽनक्तु, तं यूयं विजानीत॥१२॥

    पदार्थः -
    (तनूनपात्) यस्तनूषु शरीरेषु न पतति सः (असुरः) प्रकाशरहितो वायुः (विश्ववेदाः) यो विश्वं विन्दति सः (देवः) दिव्यगुणः (देवेषु) दिव्यगुणेषु वस्तुषु (देवः) कमनीयः (पथः) मार्गान् (अनक्तु) (मध्वा) मधुरेण (घृतेन) उदकेन सह॥१२॥

    भावार्थः - यथा परमेश्वरो महादेवो विश्वव्यापी सर्वेषां सुखकरोऽस्ति तथा वायुरप्यस्ति, नह्यनेन विना कश्चिदपि कुत्रचिद् गन्तुं शक्नोति॥१२॥

    इस भाष्य को एडिट करें
    Top