अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 12
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - पञ्चपदा पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑। बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम् ॥
स्वर सहित पद पाठसर्वा॑न् । लो॒कान् । सम् । अ॒ज॒य॒न् । दे॒वा: । आऽहु॑त्या । अ॒नया॑ । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् ॥१२.१२॥
स्वर रहित मन्त्र
सर्वांल्लोकान्त्समजयन्देवा आहुत्यानया। बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥
स्वर रहित पद पाठसर्वान् । लोकान् । सम् । अजयन् । देवा: । आऽहुत्या । अनया । बृहस्पति: । आङ्गिरस: । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् ॥१२.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 12
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(सर्वान् लोकान्) सब लोकों [दृश्यमान पदार्थों] को (देवाः) विजय चाहनेवालों ने (अनया) इस (आहुत्या) आहुति [बलि वा भेंट] से (सम्) सर्वथा (अजयन्) जीता है। (आङ्गिरसः) विद्वानों के शिष्य (बृहस्पतिः) बृहस्पति [बड़े-बड़ों के रक्षक राजा] ने (यम्) जिस (असुरक्षयणम्) असुरनाशक (वधम्) शस्त्र (वज्रम्) वज्ररूप [सेनापति] को (असिञ्चत) सींचा है [बढ़ाया है] ॥१२॥
भावार्थ - जिस धर्मात्मा सेनापति का आश्रय लेकर विद्वानों ने शत्रुओं का नाश किया है, उसी से प्रीति करके चतुर मनुष्य सब विघ्नों को हटावें ॥१२॥
टिप्पणी -
१२−(सर्वान्) (लोकान्) दृश्यमानान् पदार्थान् (सम्) सम्यक् (अजयन्) जयेन प्राप्नुवन् (देवाः) विजिगीषवः (आहुत्या) दानक्रियया (अनया) (बृहस्पतिः) बृहतां रक्षको राजा (आङ्गिरसः) म० १०। विदुषां शिष्यः (वज्रम्) वज्ररूपम् (यम्) (असिञ्चत) सिक्तवान्। वर्धितवान् (असुरक्षयणम्) दुष्टनाशकम् (वधम्) आयुधम् ॥