अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 9
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - पुरोविराट्पुरस्ताज्ज्योतिस्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते। तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न्दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥
स्वर सहित पद पाठयाम् । इन्द्रे॑ण । स॒म्ऽधाम् । स॒म्ऽअध॑त्था: । ब्रह्म॑णा । च॒ । बृ॒ह॒स्प॒ते॒ । तया॑ । अ॒हम् । इ॒न्द्र॒ऽसं॒धया॑ । सर्वा॑न् । दे॒वान् । इ॒ह । हु॒वे॒ । इ॒त: । ज॒य॒त॒ । मा । अ॒मुत॑: ॥१२.९॥
स्वर रहित मन्त्र
यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते। तयाहमिन्द्रसंधया सर्वान्देवानिह हुव इतो जयत मामुतः ॥
स्वर रहित पद पाठयाम् । इन्द्रेण । सम्ऽधाम् । सम्ऽअधत्था: । ब्रह्मणा । च । बृहस्पते । तया । अहम् । इन्द्रऽसंधया । सर्वान् । देवान् । इह । हुवे । इत: । जयत । मा । अमुत: ॥१२.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 9
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(बृहस्पते) हे बृहस्पति ! [बड़े-बड़ों के रक्षक राजन्] (यां सन्धाम्) जिस प्रतिज्ञा को (इन्द्रेण) प्रत्येक जीव के साथ (च) और (ब्रह्मणा) ब्रह्म [परमात्मा] के साथ (समधत्थाः) तूने ठहराया है। (अहम्) मैं [प्रजाजन] (तया) उस (इन्द्रसन्धया) प्राणियों के साथ प्रतिज्ञा से (सर्वान्) सब (देवान्) विजय चाहनेवाले लोगों को (इह) यहाँ (हुवे) बुलाता हूँ−“(इतः) इस ओर से (जयत) जीतो, (अमुतः) उस ओर से (मा) मत [जीतो]” ॥९॥
भावार्थ - जैसे राजा प्राणियों की रक्षा के लिये परमात्मा को साक्षी करके प्रतिज्ञा करता है, वैसे ही प्रजागण निष्कपट होकर अपने वीरों से उसका सहाय करें और वैरियों से न मिलें ॥९॥
टिप्पणी -
९−(याम्) इन्द्रेण प्रत्येकजीवेन सह (सन्धाम्) प्रतिज्ञाम् (समधत्थाः) सम्यग् धारितवानसि (ब्रह्मणा) परमात्मना सह (च) (बृहस्पते) हे बृहतां रक्षक, राजन् (इन्द्रसन्धया) प्राणिभिः प्रतिज्ञया (सर्वान्) (देवान्) विजिगीषून् (इह) अत्र (हुवे) आह्वयामि (इतः) अस्मात् स्थानात् (जयत) जयं कुरुत (मा) निषेधे (अमुतः) तस्मात् स्थानात्। शत्रुपक्षात् ॥