अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 8
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराट्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अवा॑यन्तां प॒क्षिणो॒ ये वयां॑स्य॒न्तरि॑क्षे दि॒वि ये चर॑न्ति। श्वाप॑दो॒ मक्षि॑काः॒ सं र॑भन्तामा॒मादो॒ गृध्राः॒ कुण॑पे रदन्ताम् ॥
स्वर सहित पद पाठअव॑ । अ॒य॒न्ता॒म् । प॒क्षिण॑: । ये । वयां॑सि । अ॒न्तरि॑क्षे । दि॒वि । चर॑न्ति । श्वाप॑द: । मक्षि॑का: । सम् । र॒भ॒न्ता॒म् । आ॒म॒ऽअद॑: । गृध्रा॑: । कुण॑पे । र॒द॒न्ता॒म् ॥१२.८॥
स्वर रहित मन्त्र
अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति। श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥
स्वर रहित पद पाठअव । अयन्ताम् । पक्षिण: । ये । वयांसि । अन्तरिक्षे । दिवि । चरन्ति । श्वापद: । मक्षिका: । सम् । रभन्ताम् । आमऽअद: । गृध्रा: । कुणपे । रदन्ताम् ॥१२.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 8
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(वयांसि) वे गतिवाले [प्राणी] (अव अयन्ताम्) उतरें, (ये) जो (पक्षिणः) पंखवाले हैं और (ये) जो (अन्तरिक्षे) अन्तरिक्ष के भीतर (दिवि) प्रकाश में (चरन्ति) चलते हैं। (श्वापदः) कुत्ते के से पैरवाले [सियार आदि], (मक्षिकाः) मक्खियाँ (सं रभन्ताम्) चढ़ें, (आमादः) मांसाहारी (गृध्राः) गिद्ध (कुणपे) लोथ पर (रदन्ताम्) नोंचें खरोचें ॥८॥
भावार्थ - पूरी हार होने से शत्रुओं की लोथों को मांसाहारी पशु-पक्षी खैंच-खैंच कर खावें ॥८॥
टिप्पणी -
८−(अवायन्ताम्) अय गतौ। निपद्यन्ताम् (पक्षिणः) पक्षवन्तः (ये) (वयांसि) वय गतौ-असुन्। गतिमन्ति सत्त्वानि (अन्तरिक्षे) (दिवि) प्रकाशे (ये) (चरन्ति) (श्वापदः) अ० ११।९।१०। शृगालादयः पशवः (मक्षिकाः) कीटविशेषाः (संरभन्ताम्) आक्रमन्ताम् (आमादः) मांसाहारिणः (गृध्राः) (कुणपे) शवशरीरे (रदन्ताम्) विलिखन्तु ॥