अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 4
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि॑न्द्राभि॒रक्ष॑सि। श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठयम् । इ॒यम् । त्वम् । वृ॒षाक॑पिम् । प्रि॒यम् । इन्द्र॒ । अ॒भि॒रक्ष॑सि ॥ श्वा । नु । अ॒स्य॒ । ज॒म्भि॒ष॒त् । अपि॑ । कर्णे॑ । व॒रा॒ह॒ऽयु: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.४॥
स्वर रहित मन्त्र
यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि। श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठयम् । इयम् । त्वम् । वृषाकपिम् । प्रियम् । इन्द्र । अभिरक्षसि ॥ श्वा । नु । अस्य । जम्भिषत् । अपि । कर्णे । वराहऽयु: । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 4
विषय - गृहस्थ के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले मनुष्य] (त्वम्) तू (यम्) जिस (इमम्) इस (प्रियम्) प्यारे (वृषाकपिम्) वृषाकपि [बलवान् चेष्टा करानेवाले जीवात्मा] की (अभिरक्षसि) सब ओर से रक्षा करे, [तो] (नु) क्या (वराहयुः) सुअर को ढूँढनेवाला (श्वा) कुत्ता [अर्थात् पाप कर्म] (अस्य) इस [सूअर अर्थात् जीव] के (अपि) भी (कर्णे) कान में (जम्भिषत्) काटेगा, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥४॥
भावार्थ - जब सब प्राणियों में श्रेष्ठ मनुष्य अपने आत्मा को अपने वश में कर लेता है, तब उसको कोई पाप कर्म ऐसा नहीं सताता है, जैसे कुत्ता सूअर को कान पकड़कर झँझोर डालता है ॥४॥
टिप्पणी -
४−(यम्) जीवात्मानम् (इमम्) शरीरे विद्यमानम् (त्वम्) (वृषाकपिम्) म० १। बलवच्चेष्टाकारकं जीवात्मानम् (प्रियम्) इष्टम् (इन्द्र) परमैश्वर्यवन् मनुष्य (अभिरक्षसि) परिपालयसि (श्वा) कुक्कुरः (नु) प्रश्ने (अस्य) जीवात्मनः (जम्भिषत्) भक्षयेत् (अपि) एव (कर्णे) श्रोत्रे (वराहयुः) वराहं शूकरमिच्छन्। अन्यद् गतम् ॥