अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 18
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
अ॒यमि॑न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत्। अ॒सिं सू॒नां नवं॑ च॒रुमादे॑ध॒स्यान॒ आचि॑तं॒ विश्व॑स्मादिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठअ॒यम् । इ॒न्द्र॒ । वृषाक॑पि: । पर॑स्व॒न्तम् । ह॒तम् । वि॒दत् ॥ अ॒सिम् । सू॒नाम् । नव॑म् । च॒रुम् । आत् । एध॑स्य । अन॑: । आऽचि॑तम् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१८॥
स्वर रहित मन्त्र
अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्। असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठअयम् । इन्द्र । वृषाकपि: । परस्वन्तम् । हतम् । विदत् ॥ असिम् । सूनाम् । नवम् । चरुम् । आत् । एधस्य । अन: । आऽचितम् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१८॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 18
विषय - गृहस्थ के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले मनुष्य] (अयम्) इस (वृषाकपिः) वृषाकपि [बलवान् चेष्टा करानेवाले जीवात्मा] ने (परस्वन्तम्) पालनेवाले व्यवहार को (हतम्) नाश किया हुआ (विदत्) पाया है, (आत्) तभी (नवम्) नवीन (चरुम्) स्थान [अर्थात् देश निकाला] [अथवा] (असिम्) तलवार, (सूनाम्) बध स्थान, और (एधस्य) इन्धन का (आचितम्) भरा हुआ (अनः) छकड़ा [पाया है], (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥१८॥
भावार्थ - जो पापी आत्मा उपकारी व्यवस्था को तोड़े, उसको दण्ड रीति से ऐसा कष्ट भोगना चाहिये, जैसे कोई अपराधी देश से निकाला जावे, अथवा तलवार आदि शस्त्र से मारकर लकड़ी से भस्म किया जावे ॥१८॥
टिप्पणी -
१८−(अयम्) प्रसिद्धः (इन्द्र) परमैश्वर्यवन् मनुष्य (वृषाकपिः) म० १। बलवान् चेष्टयिता जीवात्मा (परस्वन्तम्) पॄ पालनपूरणयोः-असुन्। पालनवन्तं व्यवहारम् (हतम्) हिंसितम् (विदत्) अविदत्। प्राप्तवान् (असिम्) खड्गम् (सूनाम्) षू क्षेपे-क्त, टाप्। प्राणिवधस्थानम् (नवम्) नवीनम् (चरुम्) चरस्थानम्। विवासनम् (आत्) अनन्तरम् (एधस्य) इन्धनस्य (अनः) शकटम् (आचितम्) पूर्णम्। अन्यद् गतम् ॥