अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 9
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते। उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठअ॒वीरा॑म्ऽइव । माम् । अ॒यम् । श॒रारु॑: । अ॒भि । म॒न्य॒ते॒ ॥ उ॒त । अ॒हम् । अ॒स्मि॒ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒रुत् स॑खा । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.९॥
स्वर रहित मन्त्र
अवीरामिव मामयं शरारुरभि मन्यते। उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठअवीराम्ऽइव । माम् । अयम् । शरारु: । अभि । मन्यते ॥ उत । अहम् । अस्मि । वीरिणी । इन्द्रऽपत्नी । मरुत् सखा । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 9
विषय - गृहस्थ के कर्तव्य का उपदेश।
पदार्थ -
(अयम्) यह (शरारुः) अपकारी मनुष्य (माम्) मुझ [स्त्री] को (अवीराम् इव) अवीर स्त्री के समान (अभि मन्यते) मानता है, (उत) और (अहम्) मैं (वीरिणी) वीरिणी [वीर सन्तानोंवाली], (इन्द्रपत्नी) इन्द्रपत्नी [बड़े ऐश्वर्यवाले मनुष्य की पत्नी], और (मरुत्सखा) विद्वान् वीरों को साथी रखनेवाली (अस्मि) हूँ, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥९॥
भावार्थ - वीरपत्नी स्त्री वीर सन्तानों और वीर पुरुषों के साथ रहकर दुष्टों से निर्भय होवे ॥९॥
टिप्पणी -
९−(अवीराम्) अबलाम् (इव) यथा (माम्) स्त्रियम् (अयम्) (शरारुः) शॄवन्द्योरारुः। पा० ३।२।१७३। शॄ हिंसायाम्-आरु। घातुकः। अपकारी (अभि) आभिमुख्ये (मन्यते) जानाति (उत) अपि च (अहम्) स्त्री (अस्मि) (वीरिणी) वीरसन्तानवती (इन्द्रपत्नी) इन्द्रस्य ऐश्वर्यवन्तः पुरुषस्य भार्या (मरुत्सखा) मरुद्भिर्विद्वद्भिः शूरैर्युक्ता। अन्यद् गतम् ॥