अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 9
स॒द्यश्चि॒न्नु ते॑ मघवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था। ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥
स्वर सहित पद पाठस॒द्य: । चि॒त् । नु । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । पर॑: । शं॒स॒न्ति॒ । उ॒क्थ॒ऽशस॑: । उ॒क्था ॥ ये । ते॒ । हवे॑भि: । वि । प॒णीन् । अदा॑शन् । अ॒स्मात् । वृ॒णी॒ष्व॒ । युज्या॑य । तस्मै॑ ॥३७.९॥
स्वर रहित मन्त्र
सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था। ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै ॥
स्वर रहित पद पाठसद्य: । चित् । नु । ते । मघऽवन् । अभिष्टौ । पर: । शंसन्ति । उक्थऽशस: । उक्था ॥ ये । ते । हवेभि: । वि । पणीन् । अदाशन् । अस्मात् । वृणीष्व । युज्याय । तस्मै ॥३७.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 9
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(मघवन्) हे बड़े पूजनीय ! (ये) जो (उक्थशासः) प्रशंसनीय अर्थों का उपदेश करनेवाले (नरः) नर [नेता लोग] (ते) तेरी (अभिष्टौ) सब प्रकार इष्ट सिद्धि में (सद्यः) शीघ्र (चित्) ही (नु) निश्चय करके (उक्था) कहने योग्य वचनों को (शंसन्ति) कहते हैं। और (ते) तेरे (हवेभिः) बुलावों से (पणीन्) व्यवहारों का (वि) विविध प्रकार (अदाशन्) दान करते हैं, [उन] (अस्मान्) हमको (तस्मै) उस (युज्याय) योग्य व्यवहार के लिये (वृणीष्व) तू स्वीकार कर ॥९॥
भावार्थ - जो मनुष्य राज्य की भलाई का उपदेश करें और अवसर होने पर उत्तम उपाय करें, राजा उनका सदा सन्मान करें ॥९॥
टिप्पणी -
९−(सद्यः) शीघ्रम् (चित्) अपि (नु) निश्चयेन (ते) तव (मघवन्) हे महापूज्य (अभिष्टौ) अभीष्टसिद्धौ (नरः) नेतारः (शंसन्ति) कथयन्ति (उक्थशासः) उक्थानां प्रशंसनीयार्थानां वक्तारः (उक्था) कथनीयानि वचनानि (ये) (ते) तव (हवेभिः) आह्वानैः (वि) विविधम् (पणीन्) व्यवहारान् (अदाशन्) लडर्थे लङ्। ददति (अस्मान्) (तान्) तथाविधान् (वृणीष्व) स्वीकुरु (युज्याय) युजिर् योगे-क्यप्। योग्यव्यवहाराय (तस्मै) ॥