अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 8
प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः। नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥
स्वर सहित पद पाठप्रियास॑: । इत् । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नर॑: । म॒दे॒म॒ । श॒र॒णे । सखा॑य: ॥ नि । तु॒र्वश॑म् । नि । याद्व॑म् । शि॒शी॒हि॒ । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥३७.८॥
स्वर रहित मन्त्र
प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः। नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥
स्वर रहित पद पाठप्रियास: । इत् । ते । मघऽवन् । अभिष्टौ । नर: । मदेम । शरणे । सखाय: ॥ नि । तुर्वशम् । नि । याद्वम् । शिशीहि । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥३७.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 8
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(मघवन्) हे महाधनी ! (अभिष्टौ) सब प्रकार इष्टसिद्धि में (नरः) हम नेता लोग (ते इत्) तेरे ही (प्रियासः) प्यारे (सखायः) मित्र होकर (शरणे) शरण में [रहकर] (मदेम) प्रसन्न होवें। (शंस्यम्) बड़ाई योग्य कर्म (करिष्यन्) करता हुआ तू (तुर्वशम्) हिंसकों को वश में करनेवाले (याद्वम्) प्रयत्नशील मनुष्य को (अतिथिग्वाय) अतिथियों [विद्वानों] की प्राप्ति के लिये (नि) निश्चय करके (नि) नित्य (शिशीहि) तीक्ष्ण कर ॥८॥
भावार्थ - राजा अपनी और प्रजा की बढ़ती के लिये शान्ति स्थापित करके सबको प्रसन्न रक्खे, जिससे विद्वान् लोग बे-रोक आ-जाकर उन्नति का उपदेश करते रहें ॥८॥
टिप्पणी -
८−(प्रियासः) प्रीताः (इत्) एव (ते) तव (मघवन्) महाधनिन् (अभिष्टौ) पररूपम्। अभित इष्टसिद्धौ (नरः) नेतारः (मदेम) आनन्देम (शरणे) शरणागतपालने कर्मणि (सखायः) सुहृदः सन्तः (नि) निश्चयेन (तुर्वशम्) तुर तूर त्वरणहिंसनयोः-क्विप्+वशिरण्योरुपसंख्यानम्। वा० पा०३।३।८। वश कान्तौ-अप्। तुरां हिंसकानां वशयितारम् (नि) नित्यम् (याद्वम्) इण्शिभ्यां वन्। उ०१।१२। यती प्रयत्ने वा यत ताडने-वन्, णित्, तस्य दः। यद्वो मनुष्यनाम-निघ०२।३। प्रयत्नवन्तं मनुष्यम् (शिशीहि) अ०।२।७। शो तनूकरणे-श्यनः श्लुः, लोट्। बहुलं छन्दसि। पा०७।४।७८। अभ्यासस्य इत्वम्। ई हल्यघोः। पा०६।४।११३। आत ईत्वम्। तीक्ष्णीकुरु (अतिथिग्वाय) अ०२०।२१।८। अतिथीनां विदुषां गमनाय (शंस्यम्) प्रशंसनीयं कर्म (करिष्यन्) कुर्वन् ॥