अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 3
सूक्त - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यावङ्गि॑रस॒मव॑थो॒ याव॒गस्तिं॒ मित्रा॑वरुणा ज॒मद॑ग्नि॒मत्त्रि॑म्। यौ क॒श्यप॒मव॑थो॒ यौ वसि॑ष्ठं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । अङ्गि॑रसम् । अव॑थ: । यौ । अ॒गस्ति॑म् । मित्रा॑वरुणा । ज॒मत्ऽअ॑ग्निम् । अत्त्रि॑म् । यौ । क॒श्यप॑म् । अव॑थ: । यौ । वसि॑ष्ठम् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.३॥
स्वर रहित मन्त्र
यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम्। यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । अङ्गिरसम् । अवथ: । यौ । अगस्तिम् । मित्रावरुणा । जमत्ऽअग्निम् । अत्त्रिम् । यौ । कश्यपम् । अवथ: । यौ । वसिष्ठम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 3
विषय - पुरुषार्थ करने का उपदेश।
पदार्थ -
(यौ) जो (मित्रावरुणा) मित्र और वरुण तुम दोनों (अङ्गिरसम्) उद्योगी वा ज्ञानी पुरुष को और (यौ) जो तुम दोनों (अगस्तिम्) वक्रगति पाप के गिरा देनेवाले, (जमदग्निम्) [यज्ञ वा शिल्पसिद्धि में] प्रकाशमान अग्निवाले और (अत्रिम्) दोष के नाश करनेवाले, यद्वा निरन्तर गतिशील, यद्वा कायिक वाचिक और मानसिक तीन दोष रहित महात्मा को (अवथः) बचाते हो। (यौ) जो तुम दोनों (कश्यपम्) सोमरस पीनेवाले वा सूक्ष्मदर्शी पुरुष को और (यौ) जो तुम दोनों (वसिष्ठम्) बड़े धनी और बड़े श्रेष्ठ जन को (अवथः) बचाते हो। (तौ) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥३॥
भावार्थ - मनुष्य (मित्रावरुणा) दिन-रात अर्थात् समय, और प्राण और अपान अर्थात् इन्द्रियों के यथावत् प्रयोग से ज्ञानी, शुद्ध चित्त, और सूक्ष्मदर्शी होकर सदा आनन्द भोगते हैं ॥३॥
टिप्पणी -
३−(यौ) युवाम् (अङ्गिरसम्) अ० २।१२।४। गन्तारम्। उद्योगिनं ज्ञानिनं वा (अवथः) रक्षथः (अगस्तिम्) अ० २।३२।३। अग वक्रगतौ-अच्। वसेस्तिः। उ० ४।१८०। इति अग+असु क्षेपणे कर्त्तरि−ति प्रत्ययः, पृषोदरादित्वाद् दीर्घाभावः। अगं कुटिलगतिं पापम् अस्यति उत्पाटयतीति अगस्तिः। तथाभूतं पापनाशकं महर्षिम् (मित्रावरुणा) म० १। हे अहोरात्रौ प्राणापानौ वा (जमदग्निम्) अ० २।३२।३। जमन्तः प्रज्वलन्तोऽग्नयो यज्ञे शिल्पसिद्धौ वा यस्य तं महर्षिम् (अत्रिम्) अ० २।३२।३। दोषभक्षकं निरन्तरगतिशीलं वा मुनिं यद्वा। अत्रिर्न त्रयः-निरु० ३।१७। इति कायिकवाचिकमानसिकत्रि-दोषरहितं पुरुषम् (कश्यपम्) अ० २।३३।७। सोमरसपानशीलम्। यद्वा पश्यकं सूक्ष्मदर्शिनम् (वसिष्ठम्) वसुमत्-इष्ठन्। विन्मतोर्लुक्। पा० ५।३।६५। इति मतुपो लुक्। वसुमत्तमम्। अतिशयेन धनवन्तम्। यद्वा वसु-इष्ठन्। सर्वश्रेष्ठम्। अन्यत् पूर्ववत् ॥