अथर्ववेद - काण्ड 5/ सूक्त 10/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः
छन्दः - यवमध्या त्रिपदा गायत्री
सूक्तम् - आत्मा रक्षा सूक्त
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्राच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्। ए॒तत् स ऋ॑च्छात् ॥
स्वर सहित पद पाठअ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । य: । मा॒ । प्राच्या॑: । दि॒श: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । ए॒तत् । स: । ऋ॒च्छा॒त् ॥१०.१॥
स्वर रहित मन्त्र
अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्। एतत् स ऋच्छात् ॥
स्वर रहित पद पाठअश्मऽवर्म । मे । असि । य: । मा । प्राच्या: । दिश: । अघऽयु: । अभिऽदासात् । एतत् । स: । ऋच्छात् ॥१०.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 10; मन्त्र » 1
विषय - ब्रह्म की उत्तमता का उपदेश।
पदार्थ -
[हे ब्रह्म !] (मे) मेरे लिये तू (अश्मवर्म) पत्थर के घर [के समान दृढ़] (असि) है। (यः) जो (अघायुः) बुरा चीतनेवाला मनुष्य (प्राच्याः) पूर्व वा सन्मुखवाली (दिशः) दिशा से (मा) मुझ पर (अभिदासात्) चढ़ाई करे, (सः) वह दुष्ट (एतत्) व्यापक दुःख (ऋच्छात्) पावे ॥१॥
भावार्थ - सर्वव्यापक ब्रह्म प्रत्येक दिशा में दुष्टों को सर्वत्र दण्ड देकर शिष्टों की रक्षा करता है। इसी प्रकार आगे समझो ॥१॥
टिप्पणी -
१−(अश्मवर्म) वर्म गृहनाम−निघ० ३।४। अश्मनः पाषाणस्य गृहमिव दृढं ब्रह्म (मे) मह्यम् (असि) भवसि (यः) (मा) माम् (प्राच्याः) अ० ३।२६।१। पूर्वायाः। अभिमुखीभूतायाः (दिशः) दिशायाः (अघायुः) अ० १।२०।३। पापेच्छुः (अभिदासात्) अभिक्षिपेत् (एतत्) एतेस्तुट् च। उ० १।१३३। इति इण् गतौ-अदि, तुट् च। व्यापकं दुःखम् (सः) अघायुः (ऋच्छात्) ऋच्छ गतौ-लेट्। प्राप्नुयात् ॥