अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 12
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
सु॑विज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते। तस्यो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥
स्वर सहित पद पाठसु॒ऽवि॒ज्ञा॒नम् । चि॒कि॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सी॒ इति॑ । प॒स्पृ॒धा॒ते॒ इति॑ । तयो॑: । यत् । स॒त्यम् । य॒त॒रत् । ऋजी॑य: । तत् । इत् । सोम॑: । अ॒व॒ति॒ । हन्ति॑ । अस॑त् ॥४.१२॥
स्वर रहित मन्त्र
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते। तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥
स्वर रहित पद पाठसुऽविज्ञानम् । चिकितुषे । जनाय । सत् । च । असत् । च । वचसी इति । पस्पृधाते इति । तयो: । यत् । सत्यम् । यतरत् । ऋजीय: । तत् । इत् । सोम: । अवति । हन्ति । असत् ॥४.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 12
विषय - राजा और मन्त्री के धर्म का उपदेश।
पदार्थ -
(चिकितुषे) ज्ञानी (जनाय) पुरुष के लिये (सुविज्ञानम्) सुगम विज्ञान है, [कि] (सत्) सत्य (च च) और (असत्) असत्य (वचसी) वचन (पस्पृधाते) दोनों परस्पर विरोधी होते हैं। (तयोः) उन दोनों में से (यत्) जो (सत्यम्) सत्य और (यतरत्) जो कुछ (ऋजीयः) अधिक सीधा है, (तत्) उसको (इत्) ही (सोमः) सर्वप्रेरक राजा (अवति) मानता है और (असत्) असत्य को (हन्ति) नष्ट करता है ॥१२॥
भावार्थ - विवेकी मर्मज्ञ राजा सत्य और असत्य का निर्णय करके सत्य को मानता और असत्य को छोड़ता है ॥१२॥
टिप्पणी -
१२−(सुविज्ञानम्) विज्ञातुं सुशकं भवति (चिकितुषे) अ० ४।३०।२। विदुषे (जनाय) मनुष्याय (सत्) सत्यम् (च च) (असत्) असत्यम् (वचसी) वचने (पस्पृधाते) स्पर्ध संघर्षे-लटि शपः श्लुः, छान्दसं रूपम्। स्पर्धेते। परस्परं विरोधयतः (तयोः) सदसतोर्मध्ये (यत्) (सत्यम्) यथार्थम् (यतरत्) यत् किंचित् (ऋजीयः) ऋजु-ईयसुन्। सरलतरम् (तत्) (इत्) एव (सोमः) सर्वप्रेरको राजा (अवति) गृह्णाति (हन्ति) नाशयति (असत्) असत्यम् (हन्त्यासत्) छान्दसो दीर्घः ॥