अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 18
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - त्रिष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
यां ते॑ ब॒र्हिषि॒ यां श्म॑शा॒ने क्षेत्रे॑ कृ॒त्यां व॑ल॒गं वा॑ निच॒ख्नुः। अ॒ग्नौ वा॑ त्वा॒ गार्ह॑पत्येऽभिचे॒रुः पाकं॒ सन्तं॒ धीर॑तरा अना॒गस॑म् ॥
स्वर सहित पद पाठयाम् । ते॒ । ब॒र्हिषि॑ । याम् । श्म॒शा॒ने । क्षेत्रे॑ । कृ॒त्याम् । व॒ल॒गम् । वा॒ । नि॒ऽच॒ख्नु: । अ॒ग्नौ । वा॒ । त्वा॒ । गार्ह॑ऽपत्ये । अ॒भि॒ऽचे॒रु: । पाक॑म् । सन्त॑म् । धीर॑ऽतरा: । अ॒ना॒गस॑म् ॥१.१८॥
स्वर रहित मन्त्र
यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः। अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥
स्वर रहित पद पाठयाम् । ते । बर्हिषि । याम् । श्मशाने । क्षेत्रे । कृत्याम् । वलगम् । वा । निऽचख्नु: । अग्नौ । वा । त्वा । गार्हऽपत्ये । अभिऽचेरु: । पाकम् । सन्तम् । धीरऽतरा: । अनागसम् ॥१.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 18
Subject - Countering Evil Designs
Meaning -
Whatever evil, mischief or sabotage the clever people have done or hidden in your waters, cremation ground or fields or in your home stead, in the fire or in the yajnic hall towards you, even though you are pure and sinless, we counter and throw out even if they are stronger some way.