अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 1
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ। केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ॥
स्वर सहित पद पाठकेन॑ । पार्ष्णी॒ इति॑ । आभृ॑ते॒ इत्याऽभृ॑ते । पुरु॑षस्य । केन॑ । मां॒सम् । सम्ऽभृ॑तम् । केन॑ । गु॒ल्फौ । केन॑ । अ॒ङ्गुली॑: । पेश॑नी: । केन॑ । खानि॑ । केन॑ । उ॒त्ऽश्ल॒ङ्खौ । म॒ध्य॒त: । क: । प्र॒ति॒ऽस्थाम् ॥२.१॥
स्वर रहित मन्त्र
केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ। केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥
स्वर रहित पद पाठकेन । पार्ष्णी इति । आभृते इत्याऽभृते । पुरुषस्य । केन । मांसम् । सम्ऽभृतम् । केन । गुल्फौ । केन । अङ्गुली: । पेशनी: । केन । खानि । केन । उत्ऽश्लङ्खौ । मध्यत: । क: । प्रतिऽस्थाम् ॥२.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 1
Subject - Kena Suktam
Meaning -
Like Kenopanishad, this Sukta begins with the interrogative ‘Kena, By whom’: What is the cause? The Sukta explores the cause of human existence at the individual, social and spiritual level. The first eight mantras explore the cause of the formation of the human body: Who designed, shaped, finished and juxtaposed the heels of man (i.e., the human being)? Who formed the flesh? Who the ankles? By whom were the beautiful nimble fingers formed? By whom the soles of feet? And who brought about the balance at the centre of gravity?