अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्र्यवसाना षट्पदातिशाक्वरगर्भा धृतिः
सूक्तम् - अध्यात्म सूक्त
यः प्राणे॑न॒ द्यावा॑पृथि॒वी त॒र्पय॑त्यपा॒नेन॑ समु॒द्रस्य॑ ज॒ठरं॒ यः पिप॑र्ति। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठय: । प्रा॒णेन॑ । द्यावा॑पृथि॒वी इति॑ । त॒र्पय॑ति । अ॒पा॒नेन॑ । स॒मु॒द्रस्य॑ । ज॒ठर॑म् । य: । पिप॑र्ति । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.४॥
स्वर रहित मन्त्र
यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठय: । प्राणेन । द्यावापृथिवी इति । तर्पयति । अपानेन । समुद्रस्य । जठरम् । य: । पिपर्ति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.४॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 4
Subject - To the Sun, against Evil Doer
Meaning -
Who fills and replenishes heaven and earth with the energy of prana, and fills up the depth of ocean with the energy of apana, to that Lord Supreme, that person is an affensive sinner who violates a Brahmana, knower of Brahma in truth. O Rohita, high risen Ruler, shake up that person, punish him down to naught, extend the arms of justice and retribution to the Brahmana-violator.