अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 27
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - पञ्चपदातिजागतानुष्टुब्गर्भा शक्वरी
सूक्तम् - शतौदनागौ सूक्त
अ॒पो दे॒वीर्मधु॑मतीर्घृत॒श्चुतो॑ ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि। यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहं तन्मे॒ सर्वं॒ सं प॑द्यतां व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
स्वर सहित पद पाठअ॒प: । दे॒वी: । मधु॑ऽमती: । घृ॒त॒ऽश्चुत॑: । ब्र॒ह्माणा॑म् । हस्ते॑षु । प्र॒ऽपृ॒थक् । सा॒द॒या॒मि॒ । यत्ऽका॑म: । इ॒दम् । अ॒भि॒ऽसि॒ञ्चामि॑ । व॒: । अ॒हम् । तत् । मे॒ । सर्व॑म् । सम् । प॒द्य॒ता॒म् । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥९.२७॥
स्वर रहित मन्त्र
अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि। यत्काम इदमभिषिञ्चामि वोऽहं तन्मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥
स्वर रहित पद पाठअप: । देवी: । मधुऽमती: । घृतऽश्चुत: । ब्रह्माणाम् । हस्तेषु । प्रऽपृथक् । सादयामि । यत्ऽकाम: । इदम् । अभिऽसिञ्चामि । व: । अहम् । तत् । मे । सर्वम् । सम् । पद्यताम् । वयम् । स्याम । पतय: । रयीणाम् ॥९.२७॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 27
Translation -
These divine waters, rich in sweetness and dripping melted butter, I place separately in the hands of the intellectual persons (brahmaņām). The desire, with which I sprinkle you may all that be fulfilled completely. May we become the masters of the riches,