अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
इ॒मां भूमिं॑ पृथि॒वीं ब्र॑ह्मचा॒री भि॒क्षामा ज॑भार प्रथ॒मो दिवं॑ च। ते कृ॒त्वा स॒मिधा॒वुपा॑स्ते॒ तयो॒रार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥
स्वर सहित पद पाठइ॒माम् । भूमि॑म् । पृ॒थि॒वीम् । ब्र॒ह्म॒ऽचा॒री । भि॒क्षाम् । आ । ज॒भा॒र॒ । प्र॒थ॒म: । दिव॑म् । च॒ । ते इति॑ । कृ॒त्वा । स॒म्ऽइधौ॑ । उप॑ । आ॒स्ते॒ । तयो॑: । आर्पि॑ता । भुव॑नानि । विश्वा॑ ॥७.९॥
स्वर रहित मन्त्र
इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च। ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥
स्वर रहित पद पाठइमाम् । भूमिम् । पृथिवीम् । ब्रह्मऽचारी । भिक्षाम् । आ । जभार । प्रथम: । दिवम् । च । ते इति । कृत्वा । सम्ऽइधौ । उप । आस्ते । तयो: । आर्पिता । भुवनानि । विश्वा ॥७.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 9
Translation -
This broad (prthivi) earth, and the sky, the Vedic student first brought (as) alms (bhiksa); having made them (both) fuel, he worships; in them are set (arpita) all beings.