अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 26
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - मध्येज्योतिरुष्णिक्त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
तानि॒ कल्प॑द् ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ऽतिष्ठत्त॒प्यमा॑नः समु॒द्रे। स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ॥
स्वर सहित पद पाठतानि॑ । कल्प॑त् । ब्र॒ह्म॒ऽचा॒री । स॒लि॒लस्य॑ । पृ॒ष्ठे । तप॑: । अ॒ति॒ष्ठ॒त् । त॒प्यमा॑न: । स॒मु॒द्रे । स: । स्ना॒त: । ब॒भ्रु: । पि॒ङ्ग॒ल: । पृ॒थि॒व्याम् । ब॒हु । रो॒च॒ते॒ ॥७.२६॥
स्वर रहित मन्त्र
तानि कल्पद् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे। स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥
स्वर रहित पद पाठतानि । कल्पत् । ब्रह्मऽचारी । सलिलस्य । पृष्ठे । तप: । अतिष्ठत् । तप्यमान: । समुद्रे । स: । स्नात: । बभ्रु: । पिङ्गल: । पृथिव्याम् । बहु । रोचते ॥७.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 26
Translation -
Shaping these things, the Vedic student stood performing penance (tapas tapya) on the back of the sea (salila), in-the ocean; he, bathed, brown, ruddy (pingala), shines much on the earth.