अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - पुरोऽतिजागतविराड्गर्भा त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
ब्रह्मचा॒रीष्णंश्च॑रति॒ रोद॑सी उ॒भे तस्मि॑न्दे॒वाः संम॑नसो भवन्ति। स दा॑धार पृथि॒वीं दिवं॑ च॒ स आ॑चा॒र्यं तप॑सा पिपर्ति ॥
स्वर सहित पद पाठब्र॒ह्म॒ऽचा॒री । इ॒ष्णन् । च॒र॒ति॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । तस्मि॑न् । दे॒वा: । सम्ऽम॑नस: । भ॒व॒न्ति॒ । स: । दा॒धा॒र॒ । पृ॒थि॒वीम् । दिव॑म् । च॒ । स: । आ॒ऽचा॒र्य᳡म् । तप॑सा । पि॒प॒र्ति॒ ॥७.१॥
स्वर रहित मन्त्र
ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन्देवाः संमनसो भवन्ति। स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥
स्वर रहित पद पाठब्रह्मऽचारी । इष्णन् । चरति । रोदसी इति । उभे इति । तस्मिन् । देवा: । सम्ऽमनस: । भवन्ति । स: । दाधार । पृथिवीम् । दिवम् । च । स: । आऽचार्यम् । तपसा । पिपर्ति ॥७.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 1
Subject - Extolling the Vedic student (brahmacarin) (Brahmacari = A theist, A lover of the Vedic lore; a lover of the Veda; a scholar)
Translation -
The vedic student goes on setting in motion (in) both firmaments; in him the gods become like-minded; he maintains earth and heaven; he fills his teacher with fervor (tapas)