अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 4
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ हस्त॒गृह्य॒ परा॑ णय। स॑म॒क्षम॑स्मा॒ आ धे॑हि॒ यथा॑ कृत्या॒कृतं॒ हन॑त् ॥
स्वर सहित पद पाठपुन॑: । कृ॒त्याम् । कृ॒त्या॒ऽकृते॑ । ह॒स्त॒ऽगृह्य॑ । परा॑ । न॒य॒ । स॒म्ऽअ॒क्षम् । अ॒स्मै॒ । आ । धे॒हि॒ । यथा॑ । कृ॒त्या॒ऽकृत॑म् । हन॑त् ॥१४.४॥
स्वर रहित मन्त्र
पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय। समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत् ॥
स्वर रहित पद पाठपुन: । कृत्याम् । कृत्याऽकृते । हस्तऽगृह्य । परा । नय । सम्ऽअक्षम् । अस्मै । आ । धेहि । यथा । कृत्याऽकृतम् । हनत् ॥१४.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 4
Translation -
Taking the fatal contrivance by hand, may you send it back to him, who had made it.May you put it just before him, so that it kills maker of the fatal contrivance.