अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 8
सूक्त - अथर्वा
देवता - कामः
छन्दः - त्रिपदार्ची पङ्क्तिः
सूक्तम् - काम सूक्त
इ॒दमाज्यं॑ घृ॒तव॑ज्जुषा॒णाः काम॑ज्येष्ठा इ॒ह मा॑दयध्वम्। कृ॒ण्वन्तो॒ मह्य॑मसप॒त्नमे॒व ॥
स्वर सहित पद पाठइ॒दम् । आज्य॑म् । घृ॒तऽव॑त् । जु॒षा॒णा: । काम॑ऽज्येष्ठा: । इ॒ह । मा॒द॒य॒ध्व॒म् । कृ॒ण्वन्त॑: । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व ॥२.८॥
स्वर रहित मन्त्र
इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम्। कृण्वन्तो मह्यमसपत्नमेव ॥
स्वर रहित पद पाठइदम् । आज्यम् । घृतऽवत् । जुषाणा: । कामऽज्येष्ठा: । इह । मादयध्वम् । कृण्वन्त: । मह्यम् । असपत्नम् । एव ॥२.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 8
Translation -
Enjoying this sacrificial offering rich in purified butter, may you revel here, O enlightened ones whose Chief is Kama, making me completely free from rivals.